यान् उद्धूलयतीश्वरः सिकतिला यैर् मौलिमन्दाकिनी
यैर् बालेन्दुकणार्द्रकेतकदलोत्सङ्गे परागायितम् ।
यैः कैलासविलासकाननतटीकङ्केल्लिपुष्पोद्गम
क्रीडाकार्मणम् अद्रिजाचरणयोस् ते रेणवः पान्तु वः ॥१०६॥
उमापतिधरस्य ।
लाक्षारागं हरति शिखराज् जाह्नवीवारि येषां
ये तत्वन्ति स्रजम् अधिजटामण्डलं मालतीनाम् ।
प्रत्युत्सर्पद्विमलकिरणैर् यैस् तिरोधानम् इन्दोर्
देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् ॥१०७॥
कस्यचित् । (सु।र। ८१, दक्षस्य)
भवजलधिजलावलम्बयष्टिर्
महिषमहासुरशैलवज्रधारा ।
हरहृदयतडागराजहंसी
दिशतु शिवं भवतश् चिरम् ॥१०८॥
भगीरथदत्तस्य । (सु।र। ८६)
कां तपस्वी गतोऽवस्थाम् इति स्मेराव् इव स्तनौ ।
वन्दे गौरीघनाश्लेषभवभूतिसिताननौ ॥१०९॥
भवभूतेः ।
अभिमतफलसिद्धिसिद्धमन्त्रा
वलि बलिजित्परमेष्टिनोर् उपास्ये ।
भगवति मदनारिनारि वन्दे
निखिलनगाधिपभर्तृदारिके त्वाम् ॥११०॥
वामदेवस्य ।