०१९ हरनृत्यारम्भः

आर्द्रां कण्ठे मुखाब्जस्रजम् अवनमयत्य् अम्बिका जानुलम्बां
स्थाने क्ट्वेन्दुलेखां निविडयति जटापन्नगेन्द्रेण नन्दी ।
कालः कृत्तिं निबध्नात्य् उपनयति करे कालरात्रिः कपालं
शम्भोर् नृत्यावतारे परिषद् इति पृथग् व्यापृता वः पुनातु ॥९१॥

शतानन्दस्य । (सु।र। ७६, सू।मु। २।२९)

नन्दिन् खञ्जनमञ्जुनादम् उरजं सङ्गृह्य सज्जीभव
कुष्माण्डानय भस्मभाजनम् इतो लम्बोदरागम्यताम् ।
स्कन्दं नन्दय मन्दिरोदरगतं देवीति रङ्गाङ्गणे
शम्भोस् ताण्डवमण्डनैर्कमनसः सञ्जल्पितं पातु वः ॥९२॥

योगेश्वरस्य ।

भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः ।
ब्रह्मन्न् उन्नय दूरम् आत्मसदनं देवस्य नो नृत्यतः
शम्भोः सङ्कटम् एतद् इत्य् अवतु वः प्रोत्सारणा नन्दिनः ॥९३॥

तस्यैव । (सु।र। ७४, सू।मु। २।३०)

अस्थीन्य् अस्थीन्य् अजिनम् अजिनं भस्म भस्मेन्दुर् इन्दुर्
गङ्गा गङ्गोरग उरग इत्य् आकुलाः सम्भ्रमेण ।
भूषाद् आनोपकरणगणप्रापणव्यापृतानां
नृत्यारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥९४॥

धनपालस्य । (स।क।आ। २।२३५, सू।मु। २।२७)

क्षोणि क्षोभं क्षमस्व त्वम् अपि कुरु महाकूर्म कर्म स्वकीयं
भो भोः कैलासमेरुप्रभृतिकुलधराधारिणो गच्छताधः ।
ब्रह्मन्न् उद्गच्छ दूरं कुरुत जलधयः स्थैर्यम् इत्य् अष्टमूर्तेर्
भर्तुर् नृत्यावतारे सरभसगदिताः पान्तु वो नन्दिवाचः ॥९५॥

द्वैपायनस्य ।