पयोदानां पन्थाः कवलविषयो वा परिमलं
वहन् बिभ्राणो वा सुहृदपसुहृद् वा जलरुहाम् ।
ददद् गृह्णानो वा हविर् इति मुहुर् यस्य विबुधाः
स्तुवन्त्य् अष्टौ मूर्तीः स जगद् अवताद् अन्धकरिपुः ॥८१॥
श्रीहनूमतः ।
दिक्कालात्मसमैव यस्य विभुता यस् तत्र विद्योतते
यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासाम् अभूत् ।
यस् तत्पित्तम् उषःसु योऽस्य विधये यस् तस्य जीवातवे
वोढा यद् गणम् एष मन्मथरिपोस् ताः पान्तु वो मूर्तयः ॥८२॥
चित्तपस्य । (कुवल्। १०५६)
मौलिं नेनोक्ति भालं तिलकयति तनोर् अङ्गरागं विधत्ते
धम्मिल्लं सन्दधाति प्रथयति शिरसि व्यक्तम् उत्तंसलक्ष्मीम् ।
सम्प्रीणीते भुजङ्गान् अपनयति रसं वेत्ति सम्मोदमुद्रां
याभिः शृङ्गारबन्धस् तनुभिर् इव शिवस् ताभिर् अस्तु श्रिये वः ॥८३॥
जलचन्द्रस्य ।
यां धम्मिल्लपदेऽभिषिञ्चति यया सन्ध्यासु बद्धाञ्जलिर्
याम् आयम्य यदात्मकानि नयनान्य् आमील्य यां ध्यायति ।
यां च स्यन्दनतां निनाय सहितस् ताभिः स्वयं मूर्तिभिर्
देवो विश्वतनुः पुनातु स जगच्चन्द्रार्धचूडामणिः ॥८४॥
सुधाकरस्य ।
या सृष्टिः स्रष्टुर् आद्या वहति विधिहुतं या हविर् या च होत्री
ये द्वे कालं विधत्तः श्रुतिविष्यगुणा या स्थिता व्याप्य विश्वम् ।
याम् आहुः सर्वबीजप्रकृतिर् इति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस् तनुभिर् अवतु वस् ताभिर् अष्टाभिर् ईशः ॥८५॥
कालिदासस्य । (Çअक् १।१)