धूमश्यामककुम्भि भूधरतटत्रुय्द्यद्दृषन्ति स्फुटा
टोपोल्लुण्ठितसागराम्पि विकलव्यालोकभास्वन्ति च ।
दृप्यत्तूर्णमरुन्ति कातरतरभ्रश्यज्जगन्ति प्रभोर्
उद्यन्ति त्रिपुरान्तकृन्ति नयनाद् अर्चींषि पुष्यन्तु वः ॥६६॥
कस्यचित् ।
यज्ज्योतिर् द्वादशार्कं हिमगिरिदुहितुर् यन् निशाकेलिदीपो
यत् कन्दर्पास्थिभस्मीकरणतरुणिताभ्यन्तरज्वाललेखम् ।
कल्पान्ते जुह्वतो यत् त्रिभुवनसमिधं वेधसः पुण्यवह्निर्
बिभ्राणं बभ्रुकान्तिं त्रिनयननयनज्योतिर् अस्तु श्रिये वः ॥६७॥
अंशुधरस्य ।
आनन्दस्तिमिताः समाधिषु मुखे गौर् या विलासालसाः
सम्भ्रान्ताः क्षणम् अद्भुताः क्षणम् अथ स्मेरा निजे वैकृते ।
क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास्
तत्कान्तारुदितेश्रुपूरतरलाः शम्भोर् दृशः पान्तु वः ॥६८॥
कस्यचित् ।
पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो
यस्मिन् ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव ।
अर्चिर् निष्टप्तचूडाशशिगलितसुधाघोरझाङ्कारिकोणं
तार्तीयोकं पुरारेर् तद् अवतु मदनप्लीषणं लोचनं वः ॥६९॥
भवभूतेः । (म्म् १, अड़्तेर् ५।२; शा।प। ९९)
एकं योगनियोजनान् मुकुलितं चक्षुर् द्वितीयं पुनः
पार्वत्या जघनस्थले स्तनतटे शृङ्गारभावालसम् ।
अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपितं
शम्भोर् भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥७०॥
श्रीहर्षदेवस्य ।