०१३ हरकपालः

शान्त्यै वोऽस्तु कपालदाम जगतां पतुर् यदीयां लिपिं
क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षरम् ।
विश्वं स्रक्ष्यति वक्ष्यति क्षितिम् अपाम् ईशिष्यते शिष्यते
नागान् रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् इति ॥६१॥

कस्यचित् । (सु।र। ५४)

गाढग्रन्थिप्रफुल्लद्गलविकलफणापीठनिर्यद्विषाग्नि
ज्वालानिष्टप्तचन्द्रद्रवदमृतरसप्रोषितप्रेतभावाः ।
उज्जृम्भा बभ्रुनेत्रद्युइत्म् असकृदसृक्तृष्णयालोकयन्त्यः
पान्तु त्वां नागनालग्रथितशवशिरःश्रेणयो भैरवस्य ॥६२॥

भवभूतेः । (सु।र। ३९)

जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दु
स्रवदमृतनिवृत्तप्रेतभावैः कपालैः ।
विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः
परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥६३॥

कस्यचित् । (स।क।आ। १।८४)

लिप्ता लालाटनेत्रस्फुरदुरुदहनज्वालजालप्रतापोत्
ताम्यत्कोटीर् अभारस्थिरशशिशकलप्रस्रुताभिः सुधाभिः ।
अन्तर्नृत्यप्रमोदप्रचलितशिरश् चन्द्रमौलेः कपालाः
कल्याणं वः क्रियासुः स्तुतिम् अभिधतस् ताण्डवाडम्बरेषु ॥६४॥

नरसिंहस्य ।

पायाद् वः स शिरांसि ताण्डवविधौ यन् मूर्ध्नि खिन्नोरग
श्वासाग्निद्रुतचूडचन्द्रसुधया प्राणन्त्य् अकस्माद् विधेः ।
ऋक्सामे कतिचित् पठन्ति कतिचिन् मज्जन्ति गङ्गाजले
स्वात्मानं कतिचिन् मनन्ति कतिचिन् नेत्रानले जुह्वति ॥६५॥

वामदेवस्य ।