स वः पायाद् इन्दुर् नवविसलताकोटिकुटिलः
स्मरारेर् यो मूर्ध्नि ज्वलनकपिशे भाति निहितः ।
स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥५१॥
राजशेखरस्य । (सु।र। ४६)
व्यलीके पार्वत्याः परिलघुलवैर् अञ्जनजुषः
पतद्भिर् बाष्पस्य क्रमलिखितलक्ष्म्या विजयते ।
लसल्लीलाचन्द्रश् चरणगतमौलेः स्मरजितः
किरद्भिः स्वज्योत्स्नानखमणिभिर् आपूरितकणः ॥५२॥
वामनस्य ।
शम्भोर् इन्दुकला शिवं विशतु वो यस्याः प्रतिच्छायिकां
त्रिस्रोतःपतिताम् अनेककुटिलीभावं गतां वीचिभिः ।
सेनानीर् अवलोकते ध्वजपटाकूतेन कात्यायनी
मल्लीदामस्मीहया निजवधूबोधेन नागाधिपः ॥५३॥
उमापतेः ।
अमुद्रकुमुदत्विषः स्फुरितफेनलक्षीस्पृशो
मरालकुलविभ्रमाः शफरफाललीलाभृतः ।
जयन्ति गिरिजापतेस् तरलमौलिमन्दाकिनी
तरङ्गचयचुम्बिनस् तुहिनदीधितेर् अंशवः ॥५४॥
उमापतिधरस्य ।
च्युताम् इन्दोर् लेखां रतिकलहभग्नं च वलयं
द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया ।
अवोचद् यं पश्येद्त्य् अवतु स शिवः सा च गिरिजा
स च क्रीडाचन्द्रो दशनकिरणापूरितकलः ॥५५॥
वररुचेः । (सु।र। ४७, स्व् ६६, शा।प। ९६)