०१० हरशिरोगङ्गा

कपाले गम्भीरः कुहरिणि जटासन्धिषु कृशः
समुत्तानश् चूडाभुजगमणिबन्धव्यतिकरे ।
मृदुर् लेखाकोणे रयवशविलोलस्य शशिनः
पुनीताद् दीर्घं वो हरशिरसि गङ्गाकलकलः ॥४६॥

योगेश्वरस्य । (सु।र। ५३)

स जयति गाङ्गजलौघः शम्भोर् उत्तुङ्गमौलिविनिविष्टः ।
मज्जति पुनर् उन्मज्जति चन्द्रकला यत्र शफरीव ॥४७॥

कस्यचित् । (सु।र। ४५)

यच्चन्द्रकोटिकरकोरकभावभाजि
बभ्राम बभ्रुणि जटापटले हरस्य ।
तद् वः पुनातु हिमशैलशिलानिकुञ्ज
सात्कारडम्बरविरावि सुरापगाम्भः ॥४८॥

कस्यचित् । (स।क।आ। १।७७)

गौरीविभज्यमानार्धसङ्कीर्णे हरमूर्धनि ।
अम्ब द्विगुणगम्भीरे भागीरथि नमोऽस्तु ते ॥४९॥

कस्यचित् । (सु।र। ७८, सू।मु। १।२४)

मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा
बह्वौ लाजनिभा दृशोर् मणिनिभा भोगोत्करे भोगिनः ।
नृत्यावर्तपरम्परेरितपयः मूर्च्छनोच्छालिताः
खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोबिन्दवः ॥५०॥

नडगाङ्गोकस्य ॥ शा।प। १०६, सू।मु। २।५३)