कस्मात् पार्वति निष्ठुरासि सहज शैलीद्भवानाम् इदं
निःस्नेहासि कुतो न भस्मपरुषः स्नेहं क्वचिन् निन्दति ।
कोपस् ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद्
इत्थं निर्वचनीकृतो दयितया शम्भुः शिवायास् तु वः ॥३१॥
भोजदेवस्य । (सु।र। ३५)
किं गौरि मां प्रति रुषा ननु गौः किम् अस्मि
कुप्यामि कं प्रति मयीत्य् अनुमानतोऽहम् ।
जानामि सत्यम् औनामनत एव स त्वम्
इत्थं गिरो गिरिभुवः कुटिला जयन्ति ॥३२॥
रुद्रटस्य । (काव्यालङ्कार २।१५, सू।मु। ९९।६)
केयं मूर्ध्न्य् अन्धकारे तिमिरम् इह कुतः सुभ्रु कान्तेन्दुयुक्ते
कान्ताप्य् अत्रैव कामिन् ननु जलम् उमया पृष्टम् एतावद् एव ।
नाहं द्वन्द्वं करोमि व्यपनय शिरसस् तूर्णम् एनाम् इदानीम्
एवं प्रोक्तं भवान् या प्रतिवचनजडः पातु वो मन्मथारिः ॥३३॥
कस्यचित् ॥
एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा
हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते ।
मुग्धे भूतिर् इयं कुतोऽत्र सलिलं भूतिस् तरङ्गायते
इत्थं यो विनिगूहते त्रिपथगां पायान् स वः शृङ्गारः ॥३४॥
कस्यचित् । (स्व् ६७)
धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतद् अस्या
नामैवास्यास् तद् एतत् परिचितम् अपि ते विस्मृतं कस्य हेतोः ।
नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्
देव्या निह्नोतुम् इच्छोर् इति सुरसरितं शाठ्यम् अव्याद् विभोर् वः ॥३५॥
विशाखदत्तस्य । (मुद्राराक्षस् १।१, सू।मु। ९९।१)