शिल्पं त्रीणि जगन्ति यस्य कविता यस्य त्रिवेदी गुरोर्
यश् चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते ।
त्रीन् कालान् इव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं
स त्रैगुण्यपरिच्छेदो विजयते देवस् त्रिशूलायुधः ॥१६॥
वसुकल्पदत्तस्य । (सु।र। ३०)
अर्वाञ्चत्पञ्चशाखः स्फुरदुपरिजटामण्डलः संश्रितानां
नित्यापर्णोऽपि तापत्रितयम् अपनयन् स्थाणुर् अव्याद् अपूर्वः ।
यः प्रोन्मीलत्कपर्दैः शिरसि विरचिताबालबन्धे द्युसिन्धोः
पाथोभिर् लब्धसेकः फलति फलशतं वाञ्छितं भक्तिभाजाम् ॥१७॥
जह्नोः ।
कामं मा कामयध्वं वृषम् अपि च भृशं माद्रियध्वं न वित्ते
चित्तं दत्त श्रयध्वं परम् अमृतफला या कला ताम् इहैकाम् ।
इत्थं देवः स्मरारिर् वृषम् अधरचरीकृत्य मूर्त्यैव दित्सन्
निःस्वो विश्वोपदेशानमृतकरकलाशेखरस् त्रायतां वः ॥१८॥
कविपण्डितश्रीहर्षस्य ।
भूतिव्याजेन भूमीम् अमरपुरसरित्कैतवाद् अम्बु बिभ्रल्
लालाटाक्षिच्छलेन ज्वलनम् अहिपतिश्वासलक्ष्यं समीरम् ।
विस्तीर्णाघोरवक्त्रोदरकुहरनिभेनाम्बरं पञ्चभूतैर्
विश्वं शश्वद् वितन्वन् वितरतु भवतः सम्पदं चन्द्रमौलिः ॥१९॥
जयदेवस्य ।
पीयूषेण विषेण तुल्यम् अशनं स्वर्गे श्मशाने स्थितिर्
निर्भेदाः पयसोऽनलस्य वहने यस्याविशेषग्रहः ।
ऐश्वर्येण च भिक्षया च गमयन् कालं समः सर्वतो
देवः स्वात्मनि कौतुकी हरतु वः संसारपाशं हरः ॥२०॥
वैद्यगदाधरस्य ।