००१ अथ ब्रह्मवीचिः

शम्भोः साक्षात् सखैकः सुरपतिपरो धर्मराजस् तथान्यः
प्राणा विश्वस्य कस्य प्रथमतरमतः कोऽनु सम्भाषणीयः ।
कार्यायातान् विदित्वा मुहुर् इति चतुरो लोकपालांश् चतुर्भिर्
वक्त्रैर् आभाषमाणः समम् उदितरवः पातु पद्मोद्भवो वः ॥१॥

पालितस्य ।

आगस्कारिणि कालनेमिदलने तत्ताडनार्थं रुषा
नाभीपङ्कजम् अस्त्रतां गमयितुं जाने प्रयत्ने श्रियः ।
आवासोन्मथनोपपादितभयभ्रान्तात्मनः सम्भ्रमाद्
अब्रह्मण्यपराः पुरातनमुनेर् वाचः प्रसीदन्तु वः ॥२॥

भट्टश्रीनिवासस्य । (सू।मु। २।१०८)

पायाद् वो मधुकैटभासुरवधे विष्णुप्रबोधोद्धुरो
धाता वक्त्रचतुष्टयं तु युगपद् यस्याभवत्सार्थकम् ।
एकं स्तौति मुखं शिवाम् इतरद् अप्य् आर्तं वरान् याचते
दैत्यौ प्रत्य् अपरं वितर्जति हरत्य् अन्यच् छ्रियः सम्भ्रमम् ॥३॥

वसन्तदेवस्य ।

यन् न क्षुण्णं कदाचित् तुहिनकणचयस्यन्दिभिश् चन्द्रपादैर्
नापि व्यालीनमुस्रैर् नवनलिनसरोबन्धुभिर् भानवीयैः ।
तत्कल्पान्तानुषङ्गि द्रुतम् अतनुतमः पाटयन्त्यः समन्ताद्
आद्याधीतौ विधातुर् मुखशशिविसृताः पान्तु वो दन्तभासः ॥४॥

बीजकस्य ।

जातस् तेऽधरखण्डनात् परिभवः कापालिकाद्योऽभवत्
स ब्रह्मादिषु कथ्यताम् इति मुहुर् बाल्याद् गुहे जल्पति ।
गौरीं हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां
वैलक्ष्याच् चतुरास्यनिष्फलपरावृत्तिश् चिरं पातु वः ॥५॥

(सु।र। १०१, सू।मु। २।१०५)