प्रज्ञां काम् अपि सम्पदं च कुरुते यत्पादसंवाहनं
नित्यं शाम्यति विष्वगन्धतमसं यच्चक्षुर् उन्मीलनात् ।
यत्पादार्घ्यपयो विधूय दुरितं निःश्रेयसं यच्छति
स्वान्ते नः स वसत्व् अनारतम् अनाख्येयस्वरूपो हरिः ॥१॥
शौर्याणीव तपांसि बिभ्रति भयं यस्मिन् न यस्यावधिर्
ज्ञाने दान इव द्विषाम् इव जयो येनेन्द्रियाणां कृतः ।
सम्राजाम् इव योगिनाम् अपि गुरुर् यश् च क्षमामण्डले
स श्रीललक्ष्मणसेन एकनृपतिर् मुक्तश् च जीवन्न् अभूत् ॥१॥
तस्यासीत् प्रतिराजतद्वृतमहासामन्तचूडामणिर्
नाम्ना श्रीबटुदास इत्य् अनुपमप्रेमैकपात्रं सखा ।
तापं सन्तमसं हरन्न् अहरहः कीर्तिं दधत् कौमुदीं
साक्षाद् अक्षयसूनृतामृतमयः पूर्णः कलानां निधिः ॥२॥
श्रीमान् श्रीधरदास इत्य् अधिगुणाधारः स तस्माद् अभूद्
आकौमारपारपौरुषपराधीनस्य यस्यानिशम् ।
लक्ष्मीर् वेदविदां गृहेषु गुणिता गोष्ठीषु विद्यावतां
भक्तिः श्रीपतिपादओपल्लवनखज्योत्स्नासु विश्राम्यति ॥३॥
प्रत्येकं विषयेषु पञ्चकमितैः श्लोकैः कवीनाम् इदं
तेनाकारणबान्धवेन विदधे श्रीसूक्तिकर्णामृतम् ।
प्रीतिं पल्लवयन्तु कर्णकलसीमापूरयन्तश् चिरं
मज्जन्तः परिशीलयन्तु रसिकाः पञ्च प्रवाहान् इह ॥४॥
अमराः शृङ्गारचटू अपदेशोच्चावचे क्रमशः ।
इति पञ्चभिः प्रवाहैः सदुक्तिकर्णामृतं क्रियते ॥५॥