नागानन्दनाटके सुभाषितम्

[[नागानन्दनाटके सुभाषितम् Source: EB]]

[

**पुनर्नवीकरणपाठ्यक्रमः **

** नागानन्दनाटके सूक्तिसंपत्तिः। **

** D. Srinivasacharyulu,**

** Lecture in Sanskrit,**

** Oriental college,**

** Kodangal.**

स्थानेश्वरं राजधानीकृत्य आविंध्याचल हिमाचलं परिपालितवान् तत्र महान् श्रीहर्षचक्रवर्ती। क्रीस्तुशके 606-648 राज्यभारमुद्वहदिति चारित्रिकाणां आशयः। अस्य पिता श्री प्रभाकरवर्धनः माता च यशोवती। पितृविषयक परिज्ञानेन “नैषधकर्तुः अस्य च भिन्नत्वं सूच्यते” अस्य भ्राता राज्यवर्धनः सोदरीराज्यश्रीरिति विदितं भवति। भ्रातुरनन्तरं राज्यपरदवीमलंकृतेनानेन स्वविजय सांकेतिकं “श्रीहर्षशकं” अपि क्रीष्टब्दे 606 तमे वर्षे आरब्धवानिति श्रूयते। दक्षिणापथ विजयप्रस्थान समये “द्वितीय पुलकेशिना साकं प्रचलितं युद्धसमये महनीयस्यास्य मनसि वैर्योभावस्समजनि। येनायं बौद्धधर्मानाश्रितवानिति च वेदितुं शक्यते। तदनु अयं स्वकोशागारात् प्रभूतं धनं दानरूपेण वितरितवान् पण्डितान् श्रीबाण भट्टादींश्च सम्मानितवानासीत्। अस्य दानादि वैभवमन्यैरपि पण्डितैः स्वीयग्रन्धेषु वर्णितं दृश्यते।

महाकविरयं नाटकत्रयं प्रणीतवान्। रत्नावली, प्रियदर्शिका, नागानन्दं इति नाम्नाविलसन्ति। नाटकेष्वेषु नागानन्दं नाम नाटकं अत्यन्तं प्रसिद्धमभूत् यतोहि आलङ्कारिक शिरोमणिः श्री क्षेमेन्द्रादयः स्वीय आलङ्कारिकग्रन्धेषु नागानन्दं उदाजहृः।

“दृष्टादृष्टिमधो दधाति” इति श्लोकं नवोडायाः, तदा “ग्लानिर्नादिकपीयमान"मिति धैर्यस्य “सिरामुखैः स्यंदत एव रक्तं” इति वीरस्य लक्ष्यप्रायं प्रदर्शितवन्तः। धनिकादयः वीररसे दान, दया, युद्धधर्म वीरभेदानां प्रसङ्गे “नागानन्दं” दयावीररसप्रधानमिति व्याजहृः, श्रृङ्गारादि रससमन्वितोपि ग्रन्धोयं अहिंसा सिद्धांतावबोधकत्वेन शांतरसप्रधानोपि भवितुमर्हतीति विदुषामाशयः।

नाटकेस्मिन् अङ्कपञ्चकं दृश्यते नायकः विद्याधर चक्रवर्ती जीमूतवाहनः, नायिका सिद्धराजकन्या मलयवती। तृतीयाङ्कान्तं यावत् शृङ्गाररसः पुष्टः। तदनन्तरं करुणवीरादीनि निर्धिष्टानि। नायकोयं राज्यं मन्त्रिषु निधाय पितृसेवाकरणेरतः तदर्थं वनं प्रस्थितोवीतरागः अस्य पितृसेवां विना नान्यतमनोरञ्जकमिति दृश्यते यथा-

“तिष्ठन् भातिपितुः पुरोभुवि यधा सिंहासने किं तथा

यत्संवाहयतः सुखं तु चरणौ तातस्य किं राजके ।

किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झितेया गुरोः

आया सः खलु राज्यमुज्झितगुरोः तत्रास्ति कश्चित् गुणः ॥”

पितृशु शराषापरः नायकः आश्रमान्तरं गत्वा तत्रत्यान् आश्रमधर्मानपि सम्यक् वर्णितवान् यथा- `नित्याकर्णनयाशुकेन च पदं साम्नामिदं पठ्यते’ इति पक्षिप्रायाणामपि वेदपठनानुमाल सङ्केतेतत्र यादृश वेदविद्याभ्यासः प्रचलतीति ज्ञायते।

काव्यारम्भे एव महाकविरयं इत्थमुदीरितवान् यथा “श्रीहर्षो निरुणः कविः परिषदप्येषागाणग्राहिणी, लोकेहारि च बोधिसत्वचरितं नाट्ये च दक्षावयं” इति कविः स्वयं निपुणः इति वदति। नाटक निर्माणे रस, भाव, गुणालङ्कारादिषु, सूक्तिष्वपि स्वनैपुण्यं प्रदर्शितवान्। नायकपरोपकारभावमेव सर्वोत्तम ममन्यत। अत एव अस्य सूक्तिः इयं महदादरंप्राप।

“संरक्षतापन्नगमद्य पुण्यं मयार्जितं यत् स्व शरीररदानात् ।

भवे भवेते नमयैव भूयात् परोपकाराय शरीरलाभः” ॥

शंङ्कचूडनामक पन्नगं अद्यरक्षणेन मम यत्पुण्यं भवति। तेन पुण्येन मम जन्मजन्मन्यपि परोपकार लोकोऽस्तु इति अनेन स्वशरीरार्पणविषये अतीवसंतुष्टः इति ज्ञायते शंङ्कचूडः स्वमातरं प्रति इत्थं वदति।

“ये नित्यं परदुःखितधियः ते साधवोऽस्तं गताः” इति।

वासुकिः स्वक्षेत्र रक्षणार्थं प्रतिदिनमेकैकं पन्नगं गरुडाय आहारी करोति। पुरा तु परदुःख कृतेस्वेऽपि दुःखिता अभावन् तादृशाः महानुभावाः अधुना न संतीत्यनेन राज्ञः स्वजनरक्षणे यादृशः भावः स्थातव्यः। तादृशः न अस्मद्राज्ञः इति परोक्षनिन्दाध्वन्यते वयं तु पराधीनाः इत्यनेन स्वस्य असहीयत्वमपि सूच्यते।

नायकस्य मतेपि प्रस्तुतकाले परोपकारपरायणा न संतीति अभिप्रायं व्यक्तीकुर्वन् नभोमणिरेक एव परहितकारी भवतीति वदति यथा॥

एकः श्लाघ्यो विवस्वान् परहितकरणायैव यस्य प्रयासः” इति परहित करणरतं विवस्वंतं स्लाघयामास।

शङ्कचूडवृत्तांत ज्ञानानन्तरं नायकः शरीरस्य स्वरूपं निगर्हति यथा-

“सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।

शरीरकस्यापिकृते मूढाः पापानि कृर्वते ॥” इति।

शरीरमिदं सर्वाशुचिनिधानं, नश्वरं, कृतघ्नं, ईदृशन्य रक्षणरताः मूढाः बहवोपापानि कुर्वते इत्यनेन शरीरनिरपेक्षा रक्षणा निन्दा च विदितं भवति अनेन परोक्षत्वेन वासुकि निन्दापि धृन्यते यतोहि स्वशरीरदानेन अनुचरः रक्षितव्यः इति अस्य आशयः। एतादृशभावनायाः रघुवंशे गोरक्षणादिकं आदर्शं भवितुमर्हति यतोहि “क्षतात्किलत्रायात इत्युदग्रशिक्षत्रस्य शब्दो भावनेषु रूढः, राज्येन किं तद्विपरीतवृत्तैः प्राणैरुपक्रोशमलीयसैर्वा” इति दिलीपः वदति महच्चरित्रं नायकमुद्दिश्य शङ्क चूडस्य सूक्तिः अपि मनोहरं वर्तते।

“जायन्ते च म्रियन्ते च यादृशाः क्षुद्रजंतवः ।

परार्थे च द्धकक्ष्याणांत्वादृशामुद्भवः कुतः ॥” इति।

राजाशङ्कचूडं स्वशरीरप्रदानात् रिरक्षाः वध्यकंचुकमपेक्षते येन अवगुंठितः सन् गरुडाय आहारो भवामि इत्युक्ते हेमहाभाग लोके यादृशाः क्षुद्राः जायन्ते, तथाम्रियन्ते नात्राश्चर्यं परन्तु परार्थबद्धकक्ष्याणां भवादृशां जननं भवति वा नवा न जाने इत्यतः स्वशरीरदानं मास्तु इति वदति। अनेन पन्नगस्य कर्तव्यनिष्टा महत्सु आदरभावना विदितं भवति।

“शरीरनाम्निका शोभा सदा भिभत्सदर्शने” इति श्लोकसूक्तिः वैराग्यभावस्य पराकाष्ठतया दृश्यते।

नायकः अत्यन्तविनयशाली इति निस्संदेहविषयमेव गरुडेन नीयमान समये अस्य चूडामणिः गगन्तात् पितुः पादयोः पतति तं दृष्ट्वा स्वतनयस्ये वेदमिति विज्ञाय जीमूतकेतुना उक्तंमिदं हृदयसंचलनात्मकं दृश्यते यथा- “लोकांतर गतेनापि नोप्घितो विनयक्रमः” इति। स्वपुत्रः लोकान्तरं गच्छन् स्व पितुः पादनमस्कारं स्वयकरणे अनमर्थः सन् स्वचूडामणिपातरूपेण नमस्कृत्वा विनयं प्रदर्शितवानिति सप्रशंशं व्याजहार।

प्रतिदिन आहारभिन्नं जीमूतवाहनप्रवृत्तिः आश्चर्येण पश्यन् यथा गरुडः खादनेस्थगितो भवति तदा नायिकेनोक्तवाक्यं नकेवलं नाटकप्रपञ्चे अपि तु आलङ्कारिकाणां अपि रसानन्दातिशय कारकमभूदित्यत्र न संशयः

यथा-

सिरामुखैः स्यंदत एवरक्तमद्यापि देहे मम मांसमस्ति ।

तृप्तिं न पश्यामि तवाधुनाहं, किं भक्षणात्त्वं विरतो गरुत्मान् ॥ इति।

मम शरीरगत सिराग्रभागैः रक्तप्रसारो न स्थगितः प्रभूतं मांसमपि अस्ति पुनः तवमुखे तृप्तिः न दृश्यते। हेगरुत्मान् भक्षणविरतिः कुतः? इति प्रश्नं कुर्वन् स्वधैर्यप्रवृत्तिं प्रदर्शयत् अत एव श्लोकमिमं आलङ्कारिकाः उदाजहृः।

अनन्तरमाश्चर्येण पश्यन् गरुडः इत्थं चिन्तयति। मया बहुदुष्कृतं कृतं

“आवर्जितामयाचंच्वा हृदयात् तवशोणितं ।

अनेन धैर्येण पुनः त्वया हृदयमेवनः ॥”

मम चंच्वा अस्य हृदयात् रुधिरमेव निष्कासितं परन्तु धैर्यशालिना अनेन मम हृदयमेव शून्यीकृतमिति भावेनानेन गरुडे मानसिकपरिवर्तनं सूचितं भवति।

अयमेवक्रमशः “नागानां रक्षिता भाति गुरुरेष यथा मम इति वदन् स्वगुरुं जीमूतवाहनं भावयति, तदनु सारमेव स्वकीयदुष्कृते परिहीरमपि नायकप्रार्थयति। ततः प्रसन्नः जीमूतवाहनः गरुडमुद्दिश्य कृतं प्रसङ्गंमिवभाति नाटकाय कृते हृदयंगमभाति यथा-

नित्यं प्राणाभिघातात् प्रतिविरमकुरुप्राकृतस्यानुतापं

यत्नात् पुण्यप्रवाहं समुपचिनु दिशन् सर्वसत्वेष्वभीतिं।

मग्नं येनात्रनैनः फलतिपरिमित प्राणिहिंसात्तमेतत्

दुर्गाधापारवारेर्लवणफलमिव क्षिप्तमन्तर्ह्रदस्य॥

एतदारभ्य त्वं हिंसांत्यज्य पश्चात्तप्तोभव सर्वजीवरक्षां प्रकटीकुरु। तेन पुण्यसंचयं कुरु एवमार्जितपुण्यफलसमुद्रे, त्वयाकृत पूर्वपापं लवणकणवत् अन्तर्हितो भवति इति।

उपदेशेनानेन गरुडः अत्यन्तं चिन्ताक्रान्तोभूतः इतः पूर्वं कृतपापनिवारणार्थं किं करोमि इति ध्यायन् प्रासङ्गिके न तत्र अमृतशब्दश्रवणात् तक्षणं स्वर्गात् अमृतमानीय स्वपक्षसहकारेण वृष्टिं चकार। तेन गतायुषा अपि नागाः पुनरुज्जीवनमापुः तदा सर्वेषां मानन्दः सञ्जातः। नागानामानन्दकारकमिति नागानन्दानामापि सार्थकमभूत्।

इत्थं स्वनाटके अहिंसामार्गानुभावं निक्षेपति कविना येये सूक्तयः उपयोगिताः ते सर्वेपि प्रजानुमोदववापुः। अत एव श्रीहर्षः निपुणः कविः इति सार्थक्यां सुसम्पन्नम्।

** ———————————————— ——————————————–**

]