विश्वास-प्रस्तुतिः - २३७६
आनन्दं विदुषां तनोति तनुते कर्णज्वरं विद्विषां
श्रीमान् आदिवराहपादसरसीजन्म प्रणामं मुहुः ।
सद्बन्धुर् गुणसिन्धुर् अन्धलगुडो धर्मस्य वर्त्मावनेः
श्रीमल्लक्ष्मणसेनदक्षिणभुजादण्डो’पि दण्डे कटुः ॥२३७६॥
मूलम् - २३७६

धर्माधिकरणमधोः ।
विश्वास-प्रस्तुतिः - २३७७
यो हेलोक्तिभिर् आहितो धनवताम् उद्विग्नकान्तावचो
गुम्फैर् लब्धगतिः क्षुधाकुलशिशुक्रेङ्कारसंवर्धितः ।
पीत्वा जङ्गमकल्पभूरुहवर त्वद्वाचम् एतां सुधा
सध्रीचीं बटुदास शाम्यतु स मे प्रोद्दामकर्णज्वरः ॥२३७७॥
मूलम् - २३७७

साञ्चाधरस्य ।
विश्वास-प्रस्तुतिः - २३७८
पयोधिर्परिमाणेषु धनेषु च रणेषु च ।
वन्दीन्द्राणां नरेन्द्राणां बटुदासस् तरण्डकः ॥२३७८॥
मूलम् - २३७८
पयोधिर्परिमाणेषु धनेषु च रणेषु च ।
वन्दीन्द्राणां नरेन्द्राणां बटुदासस् तरण्डकः ॥२३७८॥
राजवेतालस्य ।
विश्वास-प्रस्तुतिः - २३७९
अलम् आदिवराहेण बटुदासं परं स्तुमः ।
जगदुद्धरता येन न वक्रीकृतम् आननम् ॥२३७९॥
मूलम् - २३७९
अलम् आदिवराहेण बटुदासं परं स्तुमः ।
जगदुद्धरता येन न वक्रीकृतम् आननम् ॥२३७९॥
उमापतिधरस्य ।
विश्वास-प्रस्तुतिः - २३८०
तत्प्राङ्गणान्तम् अधिरोहति कल्पवल्ली
चिन्तामणिर् लुठति पदतले च तस्य ।
येनेक्षितः सुकृतसागरपारदृश्वा
विश्वानुरञ्जनपटुर् बटुदासदेवः ॥२३८०॥
मूलम् - २३८०
तत्प्राङ्गणान्तम् अधिरोहति कल्पवल्ली
चिन्तामणिर् लुठति पदतले च तस्य ।
येनेक्षितः सुकृतसागरपारदृश्वा
विश्वानुरञ्जनपटुर् बटुदासदेवः ॥२३८०॥
कविराजव्यासस्य ।
विश्वास-प्रस्तुतिः
श्रीधरदासविनिर्मिते सदुक्तिकर्णामृते प्रवाहो’यम् ।
पञ्चम उच्चावच इति विविधप्रमोदं तनोतु रसिकानाम् ॥
मूलम्

इति महामाण्डलिकश्रीश्रीधरदासकृतौ सदुक्तिकर्णामृते
उच्चावचप्रवाहो नाम पञ्चमः प्रवाहः ।
वीचयः ७६ । श्लोकाः ३८० ।
विश्वास-प्रस्तुतिः
श्रीधरदासविनिर्मितसदुक्तिकर्णामृते प्रवाहाणाम् ।
पञ्चकम् इह षट्सप्तत्यधिकशतचतुष्टयी वीचिः ॥

श्लोकानां च शतत्रयम् अशीत्युपेतं सहस्रयोर् द्वितयम् ।
ग्रन्थश् च षष्ठिसमधिकसप्तशताधिकसहस्रपञ्चतयम् ॥

शाके’त्र सप्तविंशत्यधिकशतोपेतदशशते शरदाम् ।
श्रीमल्लक्ष्मणसेनक्षितिपस्य रसकविंशे’ब्दे ॥

सवितुर् गत्या फाल्गुनविंशेषु परार्थहेतवे कुतुकात् ।
श्रीधरदासेनेदं सदुक्तिकर्णामृतं चक्रे ॥

भवतु नृपो धर्मपरः परमसमृद्धा च भवतु वसुधेयम् ।
धेयात् सुखानि लोके केशवचरणाम्बुजद्वितयम् ॥

इति महामाण्डलिकश्रीश्रीधरदासविनिर्मितसदुक्तिकर्णामृताख्यः
श्लोकसमुच्चयः समाप्तः ।
वीचयः ४७६ । प्रतिवीचिपञ्चश्लोकनियमेन श्लोकाः २३८० ।