०७२ कालः

विश्वास-प्रस्तुतिः - २३५६

घातयति महापुरुषान् समम् एव बहून् अनादरेणैव ।
परिवर्तमान एकः कालः शैलानिवानन्तः ॥२३५६॥

मूलम् - २३५६

घातयति महापुरुषान् समम् एव बहून् अनादरेणैव ।
परिवर्तमान एकः कालः शैलानिवानन्तः ॥२३५६॥

बाणस्य । (ह्च् ५।२)

विश्वास-प्रस्तुतिः - २३५७

व्योमैकान्तविहारिणो’पि विहगाः सम्प्राप्नुवन्त्य् आपदं
बध्यन्ते निपुणैर् अगाधसलिलान् मीनाः समुद्राद् अपि ।
दुर्णीतं किम् इहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूराद् अपि ॥२३५७॥

मूलम् - २३५७

वसुभागस्य ।

विश्वास-प्रस्तुतिः - २३५८

भीमेनात्र विजृम्भितं धनुर् इह द्रोणेन मुक्तं शुचा
कर्णस्यात्र हया हता रथपतिर् भीष्मो’त्र योद्धुं स्थितः ।
विश्वं रूपम् इहार्जुनस्य हरिणा सन्दर्शितं कौतुकाद्
उद्देशास् त इमे न ते सुकृतिनः कालो हि सर्वङ्कषः ॥२३५८॥

मूलम् - २३५८

हलायुधस्य ।

विश्वास-प्रस्तुतिः - २३५९

दिवसरजनीकूलच्छेदैः पतद्भिर् अनारतं
वहति निकटे कालस्रोतः समस्तभयावहम् ।
इह हि पततो नास्त्य् आलम्बो न चापि निवर्तनं
तद् अपि भवतां मोहः को’यं यद् एवम् अनाकुलः ॥२३५९॥

मूलम् - २३५९

कस्यचित् । (स्स् ३।२)

विश्वास-प्रस्तुतिः - २३६०

दयालुर् नो बाले न च सुजनगोष्ठीषु रमते
विलासैर् नारीणां न हि भवति सम्भावितरसः ।
अनुद्विग्नः कालः कवलयति कृत्स्नं जगद् अहो
निसर्गक्रूराणां न खलु करुणार्द्रः परिचयः ॥२३६०॥

मूलम् - २३६०

योगेश्वरस्य ।