विश्वास-प्रस्तुतिः - २३५१
करोतु नाम नीतिज्ञो व्यवसयम् इतस् ततः ।
फलं पुनस् तद् एवास्य यद् विधेर् मनसि स्थितम् ॥२३५१॥
मूलम् - २३५१
करोतु नाम नीतिज्ञो व्यवसयम् इतस् ततः ।
फलं पुनस् तद् एवास्य यद् विधेर् मनसि स्थितम् ॥२३५१॥
कस्यचित् । (सू।मु। ११२।१०)
विश्वास-प्रस्तुतिः - २३५२
भुग्नाशस्य करण्डपिण्डिततनोर् ग्लानेन्द्रियस्य क्षुधा
कृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस् तत्पिशितेन सत्वरम् असौ तेनैव यातः पथा
सुस्थास् तिष्ठत दैवम् एव जगतः क्षान्तौ क्षये चाकुलम् ॥२३५२॥
मूलम् - २३५२

कस्यचित् । (स्व् ३१४३, सु।र। १३३४, न्स्। २६)
विश्वास-प्रस्तुतिः - २३५३
वन्द्यो’सौ विधिर् एव यस्य जगतो निर्माणम् अत्युज्ज्वलं
प्रत्याकारम् अपूर्ववस्तुरचनावैचित्र्यम् अत्यद्भुतम् ।
किं चात्यन्तम् इतो विचित्रम् अपरं शक्रस्य यद् वज्रिणस्
त्रैलोक्योदरवर्तिकर्मफलयोर् दृग्गोचरे कुञ्जिका ॥२३५३॥
मूलम् - २३५३

दशरथस्य ।
विश्वास-प्रस्तुतिः - २३५४
य एको लोकानां परमसुहृदानन्दजनकः
कलाशाली श्रीमान् निधुवनविधौ मङ्गलघटः ।
सुधासूतिः सो’यं त्रिपुरहरचूडामणिर् अहो
प्रयात्यस् तं हन्त प्रकृतिविषमा दैवगतयः ॥२३५४॥
मूलम् - २३५४

कस्यचित् । (सु।र। १३७०)
विश्वास-प्रस्तुतिः - २३५५
यद् भग्नं धनुर् ईश्वरस्य शिशुना यज् जामदग्न्यो जितस्
त्यक्ता यच् च गुरोर् गिरा वसुमतीबद्धो यद् अम्भोनिधिः ।
एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यतां
दैवं वर्णय सो’पि येन सहसा नीतः कथाशेषताम् ॥२३५५॥
मूलम् - २३५५

श्रीहनूमतः । (सु।र। १३५९)