विश्वास-प्रस्तुतिः - २३४६
सृजति तावद् अशेषगुणाकरं
पुरुषरत्नम् अलङ्करणं भुवः ।
तद् अनु तत्क्षणभङ्गि करोति चेद्
अहह कष्टम् अपण्डितता विधेः ॥२३४६॥
मूलम् - २३४६
सृजति तावद् अशेषगुणाकरं
पुरुषरत्नम् अलङ्करणं भुवः ।
तद् अनु तत्क्षणभङ्गि करोति चेद्
अहह कष्टम् अपण्डितता विधेः ॥२३४६॥
कस्यचित् । (स्व् ३१२६, शा।प। ४०००, सू।मु। १३१।३९, सु।र। १४७३)
विश्वास-प्रस्तुतिः - २३४७
अध्वश्रमाय चरणौ विरहाय दारा
अभ्यर्थनाय वचनं न वपुर् जरायै ।
एतानि मे विदधतस् तस्य सर्वदैव
धातस् त्रपा न यदि किं न परिश्रमो’पि ॥२३४७॥
मूलम् - २३४७
अध्वश्रमाय चरणौ विरहाय दारा
अभ्यर्थनाय वचनं न वपुर् जरायै ।
एतानि मे विदधतस् तस्य सर्वदैव
धातस् त्रपा न यदि किं न परिश्रमो’पि ॥२३४७॥
राजशेखरस्य । (सु।र। १३२१)
विश्वास-प्रस्तुतिः - २३४८
आलम्बनाय धरणी न च नागभूमीः
स्वर्वासिनां च वसतिर् भवेद् अमुष्य ।
पूर्वार्जिताशुभवशीकृतपौरुषस्य
कल्पद्रुमो’पि न समीहितम् आतनोति ॥२३४८॥
मूलम् - २३४८
आलम्बनाय धरणी न च नागभूमीः
स्वर्वासिनां च वसतिर् भवेद् अमुष्य ।
पूर्वार्जिताशुभवशीकृतपौरुषस्य
कल्पद्रुमो’पि न समीहितम् आतनोति ॥२३४८॥
कस्यचित् । (सु।र। १०९७)
विश्वास-प्रस्तुतिः - २३४९
गुणवत् पक्षपराङ्मुखि स्वजनकुलोच्छेदबद्धनिर्बन्धे ।
अपि वीरवंशवैरिणि भगवति भवितव्यते जयसि ॥२३४९॥
मूलम् - २३४९
गुणवत् पक्षपराङ्मुखि स्वजनकुलोच्छेदबद्धनिर्बन्धे ।
अपि वीरवंशवैरिणि भगवति भवितव्यते जयसि ॥२३४९॥
उमापतिधरस्य ।
विश्वास-प्रस्तुतिः - २३५०
विद्वत्ता धनसङ्गता चिरतरं नाकारि नाकारि चेज्
ज्योत्स्नासुन्दरविग्रहः प्रतिदिशं सम्पूर्णबिम्बः शशी ।
आमृत्यु स्तनजन्मयौवनमदो नाकारि वामभ्रुवां
धिक् धातारम् अकारि येन जगति व्यङ्गः स गङ्गाधरः ॥२३५०॥
मूलम् - २३५०
विद्वत्ता धनसङ्गता चिरतरं नाकारि नाकारि चेज्
ज्योत्स्नासुन्दरविग्रहः प्रतिदिशं सम्पूर्णबिम्बः शशी ।
आमृत्यु स्तनजन्मयौवनमदो नाकारि वामभ्रुवां
धिक् धातारम् अकारि येन जगति व्यङ्गः स गङ्गाधरः ॥२३५०॥
कस्यचित् ।