विश्वास-प्रस्तुतिः - २३४१
भवारण्यं भीमं तनुगृहम् इदं छिद्रबहुलं
बली कालश् चौरो नियतम् असिता मोहरजनी ।
गृहीत्वा ज्ञानासिं विरतिफलकं शीलकवचं
समाधानं कृत्वा स्थिरतरदृशो जागृत जनाः ॥२३४१॥
मूलम् - २३४१

सिल्हणस्य ।
विश्वास-प्रस्तुतिः - २३४२
अये दूरभ्रान्तं विषयविषमारण्यविपथे
परिभ्रान्तं चेतो मम विधुरितं स्वैरमधुना ।
निरावर्ते नित्ये स्थिरनिरवधानभ्रममये
विवेकप्रभ्रश्यद्विकृतिपरमानन्दजलधौ ॥२३४२॥
मूलम् - २३४२

भवानन्दस्य ।
विश्वास-प्रस्तुतिः - २३४३
ध्यायन्न् एष तम् आदिदेवम् अमरस्रोतस्वतीरोधसि
क्वापि क्लेशकषायिताभिर् उपरिग्लानो मनोवृत्तिभिः ।
अभ्यासोपहताङ्गुलिक्रममिलन्निर्वेदवीणाकल
ध्वानावर्जितनिर्जितेन्द्रियगतिर् लीनः परे ब्रह्मणि ॥२३४३॥
मूलम् - २३४३

शङ्करदेवस्य ।
विश्वास-प्रस्तुतिः - २३४४
मृत्पिण्डेन भुवैव किं तद् अनु तद् भेदेन किं मेरुणा
किं ब्रह्माण्डजरायुकोटरकुटीकीटैः सुराख्यैर् अपि ।
त्रैलोक्ये’पि दयालुसौख्यललितान्य् आश्चर्यम् एतत् पुनश्
चेतोद्वैतसमाधिनीरधिसुधापूरप्लवं गाहते ॥२३४४॥
मूलम् - २३४४

बल्लणस्य ।
विश्वास-प्रस्तुतिः - २३४५
नानाप्य् एकं यद् इह दहरं पुण्डरीकं यद् ओक
स्तोके यस्याप्य् अनुभवविधौ न स्वदन्ते मधूनि ।
यस्योन्मेषाद् दिनमणिरुचो’प्य् अन्धकारप्रकाराः
शश्वत् तस्मै प्रणम हृदय ब्रह्मणे शाश्वताय ॥२३४५॥
मूलम् - २३४५

कस्यचित् ।