०६७ तापस्वी

विश्वास-प्रस्तुतिः - २३३१

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यम् अक्षय्यम् अन्नं
वस्त्रं विस्तीर्णम् आशादशकम् अपमलं तल्पम् अस्वल्पम् उर्वी ।
येषां निःसङ्गताङ्गीकरणपरिणतिस्वस्तिसन्तोषिणस् ते
धन्याः सन्न्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥२३३१॥

मूलम् - २३३१

नग्नाचार्यस्य । (स्स् ४।७)

विश्वास-प्रस्तुतिः - २३३२

धिग् धिक् तान् कृमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो
निष्पन्दीकृतशान्तयो’पि च तपःकारा गृहेष्व् आसने ।
तं विद्वांसम् इह स्तुमः करपुटीभिक्षाल्पशाके’पि वा
बालावक्त्रसरोजिनीमधुनि वा यस्याविशेषो रसः ॥२३३२॥

मूलम् - २३३२

वल्लणस्य । (स्स् ४।१०, सु।र। १६०९)

विश्वास-प्रस्तुतिः - २३३३

वारांस् त्रीन् अभिषुण्वते विदधते वन्यैः शरीरस्थितीर्
ऐणेय्यां त्वचि संविशन्ति वसते चापि त्वचं तारवीम् ।
तत् पश्यन्ति च धाम नाभिपततो यच् चार्मणे चक्षुषी
धन्यानां विरजस् तमा भगवती चर्येयम् आह्लादते ॥२३३३॥

मूलम् - २३३३

मुरारेः । (अर् २।२९)

विश्वास-प्रस्तुतिः - २३३४

वल्मीकार्धनिमग्नमूर्तिर् उरगत्वग्ब्रह्मसूत्रान्तरः
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसम्पीडितः ।
अंसव्यापिशकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुर् इवाचलो मुनिर् असाव् अभ्यर्कबिम्बं स्थितः ॥२३३४॥

मूलम् - २३३४

कालिदासस्य । (Çअक् ७।११)

विश्वास-प्रस्तुतिः - २३३५

प्राणानाम् अनिलेन वृत्तिर् उचिता सत्कल्पवृक्षे वने
तोये काश्चन पद्मरेणुकपिशे पुण्याभिषेकक्रिया ।
ध्यानं रत्नशिलागुहासु विबुधस्त्रीसन्निधौ संयमो
यद् वाञ्छन्ति तओप्भिर् अन्यमुनयस् तस्मिंस् तपस्यन्त्य् अमी ॥२३३५॥

मूलम् - २३३५

तस्यैव । (Çअक् ७।१२, स।क।आ। १।१०६)