०६१ कृतार्थशान्तः

विश्वास-प्रस्तुतिः - २३०१

कान्तायाः करजैः कपोलफलके पत्रावली कल्पिता
केलिद्यूतपणीकृतो विहरता पीतः स बिम्बाधरः ।
स्वेदार्द्रीकृतचन्दनस्तनतटी सानन्दम् आलिङ्गिता
निर्विष्टा विषयाः शिवात्ममहसि न्यस्तं मनः सम्प्रति ॥२३०१॥

मूलम् - २३०१

मुञ्जस्य ।

विश्वास-प्रस्तुतिः - २३०२

यल् लीलाकमलाहतौ प्रमुदितं यन् मन्मथस्यास्पदं
यत् कान्ताप्रणयापराधकलहे पर्याप्तकौतूहलम् ।
यत् प्रेमार्दवधूविलासतुलितभ्रूलास्यबद्धस्पृहं
तच् चेतः स्मरवैरिभग्नसदनप्रान्ते स्थितीर् वाञ्छति ॥२३०२॥

मूलम् - २३०२

तस्यैव ।

विश्वास-प्रस्तुतिः - २३०३

जितेयं दोर्दर्पाज् जलधिपरिवेशा वसुमती
शिरः क्षौणीन्द्राणां निजचरणपीठे विलुठितम् ।
कृतं दत्तं भुक्तं कृतम् अपि कुले यत् समुचितं
कृतार्थं तीर्थेषु भ्रमणम् अधुना वाञ्छति मनः ॥२३०३॥

मूलम् - २३०३

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - २३०४

अभ्यस्ताः स्फुटम् एव शास्त्रगतयः सम्यक्कवित्वोदधेः
पारं चाधिगतं सतां परिषदि प्राप्तः प्रतिष्ठोदयः ।
निर्विण्णस्य ममाधुना ननु परः पन्था न दैन्यं विना
नेतुं वाञ्छति वासना सुरधुनीतीरे’नुरूपं वयः ॥२३०४॥

मूलम् - २३०४

वासुदेवस्य ।

विश्वास-प्रस्तुतिः - २३०५

कीर्तिर् लब्धा सदसि विदुषां शीलिताः क्षोणिपाला
वाक्सन्दर्भाः कतिचिद् अमृतस्यन्दिनो निर्मिताश् च ।
तीरे सम्प्रत्य् अमरसरितः क्वापि शैलोपकण्ठे
ब्रह्माभ्यासप्रवणमनसा नेतुम् ईहे दिनानि ॥२३०५॥

मूलम् - २३०५

धोयीकस्य । (पवनदूत १०४)