विश्वास-प्रस्तुतिः - २२८६
एकं सागरतीरनीरनिकरस्फाराञ्जलिक्षालितैः
पुष्पैर् अच्युतपूजनं निजकरव्यापारसम्पादितैः ।
नो चेन् मञ्जुलमालतीदललसत्खट्वार्चिते मन्दिरे
कान्तातुङ्गनितम्बबिम्बसुरतक्रीडारसैः स्थीयते ॥२२८६॥
मूलम् - २२८६

कस्यचित् ।
विश्वास-प्रस्तुतिः - २२८७
प्रशान्ते धीराणां मनसि परमब्रह्मरसिके
रजो वा राज्यं वा द्वयम् इदम् अभेदं सुकृतिनाम् ।
धिग् अस्माकं चित्ते विगलितविवेके पुनर् इह
प्रिया वा प्राणा वा सदृशम् अथवा पूर्वम् अधिकम् ॥२२८७॥
मूलम् - २२८७

पुरोकस्य ।
विश्वास-प्रस्तुतिः - २२८८
धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायताम्
आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कम् अङ्कस्थिताः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट
क्रीडाकाननकेलिमन्दिरजुषां चेतः परं सीदति ॥२२८८॥
मूलम् - २२८८

सत्यबोधस्य । (वैस् १९६, स्स् १।५, शा।प। ४१५५, सू।मु। १२६।९, सु।र। १४६१)
विश्वास-प्रस्तुतिः - २२८९
सद्यः काश्मीरमृष्टस्तनकलसलुठत्तारहारावलीभिः
कर्पूरोद्गारिणीभिः समम् असमसुखाः केलयः केरलीभिः ।
नो चेद् भिक्षाप्रसन्ने मनसि मनसिजक्लेशनाशे विलासो
वाराणस्यां निवासः स्मरहरचरणोपासनावासनाभिः ॥२२८९॥
मूलम् - २२८९

वासुदेवस्य ।
विश्वास-प्रस्तुतिः - २२९०
अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः
पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्य् अस्त्य् एवं कुरु भवरसास्वादने लम्पटत्वं
नो चेच् चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥२२९०॥
मूलम् - २२९०

उत्पलराजस्य । (सु।र। १६०५, स्व् ३४६७, शा।प। ४१६७, वैस् १८३)