०५६ विचिकित्सितितम्

विश्वास-प्रस्तुतिः - २२७६

बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं
प्रायो बन्धुभिर् अध्वनीव पथिकैर् योगो वियोगावहः ।
हातव्यो’यम् असार एव विरसः संसार इत्य् आदिकं
सर्वस्यैव हि वाचि चेतसि पुनः कस्यापि पुण्यात्मनः ॥२२७६॥

मूलम् - २२७६

सिल्हणस्य । (स्स् १।२०, सु।र। १६१०)

विश्वास-प्रस्तुतिः - २२७७

तडिन्मालालोक्लं प्रतिविरतिदत्तान्धतमसं
भवे सौख्यं हित्वा शमसुखम् उपादेयम् अनघम् ।
इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो
वयं वीतव्रीडाः शुक इव पठामः परम् अमी ॥२२७७॥

मूलम् - २२७७

विश्वास-प्रस्तुतिः - २२७८

तस्यैव । (स्स् १।२१, सु।र। १६१४)
रेतःशोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन्
मृत्योर् आस्पदम् आश्रयो गुरुशुचां रोगस्य विश्रामभूः ।
जानन्न् अप्य् अवशो विवेकविरहान् मज्जन्न् अविद्याम्बुधौ
शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ॥२२७८॥

मूलम् - २२७८

तस्यैव । (स्स् १।२६, सु।र। १६३४)

विश्वास-प्रस्तुतिः - २२७९

बीभत्साः प्रतिभान्ति किं नु विषयाः किं नु स्पृहायुष्मती
देहस्यापचयो मतौ निविशते गाढो गृहेषु ग्रहः ।
ब्रह्मोपास्यम् इति स्फुरत्य् अपि हृदि व्यावर्तिका वासना
का नामेयम् अतर्क्यहेतुगहना दैवी सतां यातना ॥२२७९॥

मूलम् - २२७९

तस्यैव । (स्स् १।७)

विश्वास-प्रस्तुतिः - २२८०

स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं
महारोगो भोगः कुवलयदृशः शष्पसदृशः ।
गृहावेशः क्लेशः प्रकृतिचपला श्रीर् अपि खला
यमः स्वैरी वैरी तद् अपि न हितं कर्म विहितम् ॥२२८०॥

मूलम् - २२८०

कस्यचित् । (स।क।आ। २।२०९, स्स् २।१२)