०५५ विचारः

विश्वास-प्रस्तुतिः - २२७१

ददाति तावद् अमी विषयाः सुखं
स्फुरति यावद् इयं हृदि वासना ।
मनसि तत्त्वविदां च विवेचके
क्व विषयाः क्व सुखं क्व परिग्रहः ॥२२७१॥

मूलम् - २२७१

ददाति तावद् अमी विषयाः सुखं
स्फुरति यावद् इयं हृदि वासना ।
मनसि तत्त्वविदां च विवेचके
क्व विषयाः क्व सुखं क्व परिग्रहः ॥२२७१॥

कस्यचित् । (सु।र। १६०७)

विश्वास-प्रस्तुतिः - २२७२

आयुर् वासरमासवत्सरगणे गच्छत्य् अदूरं पथैर्
आक्रामन्ति कृतान्तकासरखुरक्षुण्णा रजोराजयः ।
ईषल्लङ्घितशैशवा इति वयःसन्धिं दधाना इति
व्यक्ता वर्जितयौवना इति तथा नन्दन्ति तन्द्रालवः ॥२२७२॥

मूलम् - २२७२

जलचन्द्रस्य ।

विश्वास-प्रस्तुतिः - २२७३

तन् मित्रं यद् अयन्त्रणं स विभवो यः साधुसाधारणस्
तस्यां योषिति भावयेद् अभिरतिं भावानुरक्तैव या ।
तां चिन्तां मनसोद्वहेत सततं यस्याः फलं भुज्यते
तानीहेत फलानि यान्य् अविधुराण्य् आशा महीजन्मनः ॥२२७३॥

मूलम् - २२७३

कस्यचित् ।

विश्वास-प्रस्तुतिः - २२७४

तत् पाण्डित्यं न पतति पुनर् येन संसारबन्धे
तत् सौहार्दं न चलति पुनर् यत् सुखे वासुखे वा ।
सम्भोगास् ते रतिषु विदुषां ये न वाच्याः परेषां
तच् चैश्वर्यं जगति महतां यत् परेषां सुखाय ॥२२७४॥

मूलम् - २२७४

विश्वास-प्रस्तुतिः - २२७५

सद्विद्या यदि कल्पशाखिभिर् अलं यद्य् अर्थिनः किं तृणैः
सन्तश् चेद् अमृतेन किं यदि खलास् तत्कालकूटेन किम् ।
किं कर्पूरशलाकया यदि दृशः पन्थानम् एति प्रिया
संसारे’पि सतीन्द्रजालघटनं यद्य् अस्ति तेनापि किम् ॥२२७५॥

मूलम् - २२७५

कस्यचित् । (स।क।आ। ४।७१)