विश्वास-प्रस्तुतिः - २२६६
पित्रोर् नोपकृतं हिमांशुधवलं नोपार्जितं वा यशो
मित्राणाम् उपकारिता न विहिता दत्तं न च स्वेच्छया ।
गाढालिङ्गनलालसापि दयिता नालिङ्गिता केवलं
कालो’भ्येति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया ॥२२६६॥
मूलम् - २२६६

कस्यचित् ।
विश्वास-प्रस्तुतिः - २२६७
नो खड्गप्रविदारिता करिघटा नोद्वेजिता वैरिणस्
तन्वङ्ग्या विपुले नितम्बफलके न क्रीडितं लीलया ।
नो जुष्टं गिरिराजनिर्झरचलज्झङ्कारि गाङ्गं पयः
कालो’यं परिपिण्डलोलुपतया काकैर् इव प्रेरितः ॥२२६७॥
मूलम् - २२६७

विश्वास-प्रस्तुतिः - २२६८
न प्राप्ता भुवि वारिवृन्ददमनी विद्या विनोदोचिता
खड्गाग्रैः करिकुम्भपीठदलनैर् नैवानुनीतं यशः ।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतम् एव निष्फलम् अहो शून्यालये दीपवत् ॥२२६८॥
मूलम् - २२६८

कस्यचित् । (सू।मु। ३४००)
विश्वास-प्रस्तुतिः - २२६९
नो मेघायितम् अर्थवारिविरहक्लिष्टे’र्थिशस्ये मया
नोद्धृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् ।
नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं
मातुः केवलम् एव यौवनवनच्छेदे कुठारायितम् ॥२२६९॥
मूलम् - २२६९

भर्तृहरेः । (सु।र। १४९८)
विश्वास-प्रस्तुतिः - २२७०
नाक्रान्ताम्बुधिमेखला वसुमती लक्ष्मीः समावेशिता
नो विद्वद्भवनेषु पक्ष्मलदृशां नाश्रावि सूक्तामृतम् ।
जन्म व्यर्थफलोदयं बत परं गृह्णद्भिर् अस्मादृशैर्
व्याप्तं व्योम कियद्भुजङ्गमपतेर् भारः कियान् अर्पितः ॥२२७०॥
मूलम् - २२७०

साञ्चाधरस्य ।