०५२ वृद्धः

विश्वास-प्रस्तुतिः - २२५६

स्वस्ति सुखेभ्यः सम्प्रति सलिलाञ्जलिर् एष मन्मथकथायाः ।
ता अपि माम् अतिवयसं तरलदृशः सरलम् ईक्षन्ते ॥२२५६॥

मूलम् - २२५६

स्वस्ति सुखेभ्यः सम्प्रति सलिलाञ्जलिर् एष मन्मथकथायाः ।
ता अपि माम् अतिवयसं तरलदृशः सरलम् ईक्षन्ते ॥२२५६॥

शतानन्दस्य । (स्व् ३३९५, सु।र। १५२२)

विश्वास-प्रस्तुतिः - २२५७

आक्रान्तं वलिभिः प्रसह्य पलितैर् अत्यन्तम् आस्कन्दितं
वार्धक्यं श्लथसन्धिबन्धनतया निःस्थाम निर्धाम च ।
एतन् मे वपुर् अस्थिकेवलजरत्कङ्कालम् आलोकय
स्थूलशिराकरालपरुषत्वङ्मात्रपात्रीकृतम् ॥२२५७॥

मूलम् - २२५७

दङ्कस्य ।

विश्वास-प्रस्तुतिः - २२५८

गलितं यौवनम् अधुना वनमधुना सेवनीयम् अस्माकम् ।
स्फुरदुरुहारमणीनां हारमणीनां गतः कालः ॥२२५८॥

मूलम् - २२५८

गलितं यौवनम् अधुना वनमधुना सेवनीयम् अस्माकम् ।
स्फुरदुरुहारमणीनां हारमणीनां गतः कालः ॥२२५८॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - २२५९

स्थूलप्रावरणो’तिवृत्तकथनः कासाश्रुलालाविलो
भुग्नाङ्घ्रित्रिकपृष्ठजानुजघनो मुग्धो’तिथीन् वारयन् ।
शृण्वन् धृष्टवधूवचांसि धनुषा सन्त्रासयन् वायसान्
आशापाशनिबद्धजीवविहगो वृद्धो गृहे ग्लायति ॥२२५९॥

मूलम् - २२५९

कस्यचित् । (स्स् २।२९)

विश्वास-प्रस्तुतिः - २२६०

विकासयति लोचने स्पृशति पाणिना कुञ्चिते
विदूरम् अवलोकयत्य् अतिसमीपसंस्थं पुनः ।
बहिर् व्रजति सातपे स्मरति नेत्रवृत्तेः पुरा
जराप्रमुखसंस्थितः समवलोकयन् पुस्तकम् ॥२२६०॥

मूलम् - २२६०

कस्यचित् । (सु।र। ११७९)