विश्वास-प्रस्तुतिः - २२४६
चलत्काष्ठं गलत्कुड्यम् उत्तानतृणसञ्चयम् ।
गण्डूपदार्थिमण्डूककीर्णं जीर्णं गृहं मम ॥२२४६॥
मूलम् - २२४६
चलत्काष्ठं गलत्कुड्यम् उत्तानतृणसञ्चयम् ।
गण्डूपदार्थिमण्डूककीर्णं जीर्णं गृहं मम ॥२२४६॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - २२४७
हस्तप्राप्यतृणोज्झिताः प्रतिपयोवृत्तिस्खलद्भित्तयो
दूरालम्बितदारुदन्तुरमुखाः पर्यन्तवल्लीवृत्ताः ।
वस्त्राभावविलीनसत्रपवधूर्दत्तार्गला निर्गिरस्
त्यजन्ते चिरशून्यविभ्रमभृतो भिक्षाचरैर् मृद्गृहाः ॥२२४७॥
मूलम् - २२४७

विश्वास-प्रस्तुतिः - २२४८
पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं नाथ ।
विलसत्करेणुगहनं सम्प्रति समम् आवयोः सदनम् ॥२२४८॥
मूलम् - २२४८
पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं नाथ ।
विलसत्करेणुगहनं सम्प्रति समम् आवयोः सदनम् ॥२२४८॥
कस्यचित् । (सु।र। १६४४, साह्।द्। ७।२०, १०।१३)
विश्वास-प्रस्तुतिः - २२४९
धूमेन रिक्तम् अपि निर्भरबाष्पकारि
दूरीकृतानलम् अपि प्रतिपन्नतापम् ।
दैन्यातिशून्यम् अपि भूषितबन्धुवर्गम्
आश्चर्यम् एव खलु खेदकरं गृहं नः ॥२२४९॥
मूलम् - २२४९
धूमेन रिक्तम् अपि निर्भरबाष्पकारि
दूरीकृतानलम् अपि प्रतिपन्नतापम् ।
दैन्यातिशून्यम् अपि भूषितबन्धुवर्गम्
आश्चर्यम् एव खलु खेदकरं गृहं नः ॥२२४९॥
जलचन्द्रस्य ।
विश्वास-प्रस्तुतिः - २२५०
उत्सन्नच्छदिर् उच्छ्वसद्वृति गलद्भित्ति स्खलन्मण्डलि
भ्राम्यत्कुण्डलि हिण्डदाखु खुरलिप्रक्रीडिभेकावलि ।
पञ्चच्चर्मचटौघपक्षतिपुटप्रारब्धभाम्भाङ्कृति
श्रीमत्सेनकुलावतंस भवतः शत्रोर् इवास्मद्गृहम् ॥२२५०॥
मूलम् - २२५०

सोह्नोकस्य ।