०४९ तद्गृहिणी

विश्वास-प्रस्तुतिः - २२४१

अद्याशनं शिशुजनस्य बलेन जातं
श्वो वा कथं नु भवितेति विचिन्तयन्ती ।
इत्य् अश्रुपातमलिनीकृतगण्डदेशा
नेच्छेद् दरिद्रगृहिणी रजनीविरामम् ॥२२४१॥

मूलम् - २२४१

अद्याशनं शिशुजनस्य बलेन जातं
श्वो वा कथं नु भवितेति विचिन्तयन्ती ।
इत्य् अश्रुपातमलिनीकृतगण्डदेशा
नेच्छेद् दरिद्रगृहिणी रजनीविरामम् ॥२२४१॥

कस्यचित् । (सु।र। १३११)

विश्वास-प्रस्तुतिः - २२४२

यावद् दुःखकुटुम्बिनीकरतलस्पर्शात् समालोकते
तत्तत्क्षुद्रकणादिरक्षणधिया घोरं घने वर्षति ।
तावज् जीर्णकुटीरकोटरविशत्सौदामिनीदीपितं
दृष्ट्वा तूलकजालम् आबिलजलाकीर्णं मुहुर् मूर्च्छति ॥२२४२॥

मूलम् - २२४२

यावद् दुःखकुटुम्बिनीकरतलस्पर्शात् समालोकते
तत्तत्क्षुद्रकणादिरक्षणधिया घोरं घने वर्षति ।
तावज् जीर्णकुटीरकोटरविशत्सौदामिनीदीपितं
दृष्ट्वा तूलकजालम् आबिलजलाकीर्णं मुहुर् मूर्च्छति ॥२२४२॥

योगेश्वरस्य ।

विश्वास-प्रस्तुतिः - २२४३

कुम्भीसञ्चिततण्डुलाः प्रतिदिनं नीताः क्षयं मूषिकैर्
वास्तुष्व् एव पिशङ्गितोदरतलाः शीर्यन्ति वार्ताकवः ।
जीर्णं जालकमारनालपिठरीगर्भे च काकारवं
दीनायाः पथिकस्त्रियाः प्रियतमप्रत्यागमाकाङ्क्षया ॥२२४३॥

मूलम् - २२४३

कुम्भीसञ्चिततण्डुलाः प्रतिदिनं नीताः क्षयं मूषिकैर्
वास्तुष्व् एव पिशङ्गितोदरतलाः शीर्यन्ति वार्ताकवः ।
जीर्णं जालकमारनालपिठरीगर्भे च काकारवं
दीनायाः पथिकस्त्रियाः प्रियतमप्रत्यागमाकाङ्क्षया ॥२२४३॥

नीलस्य ।

विश्वास-प्रस्तुतिः - २२४४

वैराग्यैकसमुन्नता तनुतनुः शीर्णाम्बरं बिभ्रती
क्षुत्क्षामेक्षणकुक्षिभिश् च शिशुभिर् भोक्तुं समभ्यर्थिता ।
दीना दुःस्थकुटुम्बिनी प्रविगलद्बाष्पाम्बुधौताननाप्य्
एकं तण्डुलमानकं दिनशतं नेतुं समाकाङ्क्षति ॥२२४४॥

मूलम् - २२४४

वीरस्य ।

विश्वास-प्रस्तुतिः - २२४५

सक्तूञ् शोचति सम्प्लुतान्, प्रतिकरोत्य् आक्रन्दतो बालकान्
प्रत्युत्सिञ्चति कर्परेण सलिलं, शय्या-तृणं रक्षति
दत्त्वा मूर्ध्नि विशीर्ण-शूर्प-शकलं, जीर्णे गृहे व्याकुला
किं तद् यन् न करोति दुः-स्थ-गृहिणी देवे भृशं वर्षति ॥२२४५॥

English - शङ्करः

She cries over the wet barley flour; pacifies her children; throws out the water with a potsherd; safeguards the straw bed; and covers her head with an old basket - the poor man’s helpless wife when the it rains nonstop on her hut.

मूलम् - २२४५

सक्तूञ् शोचति सम्प्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान्
प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति ।
दत्त्वा मूर्ध्नि विशीर्णशूर्पशकलं जीर्णे गृहे व्याकुला
किं तद् यन् न करोति दुःस्थगृहिणी देवे भृशं वर्षति ॥२२४५॥

लङ्गदत्तस्य । (सु।र। १३१२, योगेश्वरस्य; स्व् ३२०१)