विश्वास-प्रस्तुतिः - २२२६
लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः
पुच्छाग्रे गृहिणी खुरेषु शिशवो लग्ना वधूः कम्बले ।
एकः शीर्णजरद्गवो विधिवशात् सर्वस्वभूतो गृहे
सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ॥२२२६॥
मूलम् - २२२६

कस्यचित् । (सु।र। १३१७)
विश्वास-प्रस्तुतिः - २२२७
प्रायो दरिद्रशिशवः परमन्दिराणां
द्वारेषु दत्तकरपल्लवलीनदेहाः ।
लज्जानिगूढवचसो बहुभोक्तुकामा
भोक्तारम् अर्धनयनेन विलोकयन्ति ॥२२२७॥
मूलम् - २२२७
प्रायो दरिद्रशिशवः परमन्दिराणां
द्वारेषु दत्तकरपल्लवलीनदेहाः ।
लज्जानिगूढवचसो बहुभोक्तुकामा
भोक्तारम् अर्धनयनेन विलोकयन्ति ॥२२२७॥
कस्यचित् । (सु।र। १३२०)
विश्वास-प्रस्तुतिः - २२२८
हलम् अगु बलस्यैको’नड्वान् हरस्य न लाङ्गलं
पदपरिमिता भूमिर् विष्णोर् न गौर् न च लाङ्गलम् ।
प्रभवति कृषिर् नैवाद्यापि द्वितीयगवं विना
जगति सकले नेदृग् दृष्टं दरिद्रकुटुम्बकम् ॥२२२८॥
मूलम् - २२२८

कस्यचित् ।
विश्वास-प्रस्तुतिः - २२२९
मद्गेहे मुषलीव मूषकवधूर् मूषीव मार्जारिका
मार्जारीव शुनी शुनीव गृहिणी वाच्यः किम् अन्यो जनः ।
किं च क्षुत्क्लमघूर्णमाननयनैर् उन्निद्रम् उर्वीं गतैः
कर्तुं वाग्व्ययम् अक्षमैः स्वजननी बालैः समालोक्यते ॥२२२९॥
मूलम् - २२२९

दुर्गतस्य । (स्व् ३१९७, कस्यापि)
विश्वास-प्रस्तुतिः - २२३०
जरदम्बरसंवरणग्रन्थविधौ ग्रन्थकार एको’हम् ।
परिमितकदन्नबण्टनविद्यापारङ्गता गृहिणी ॥२२३०॥
मूलम् - २२३०
जरदम्बरसंवरणग्रन्थविधौ ग्रन्थकार एको’हम् ।
परिमितकदन्नबण्टनविद्यापारङ्गता गृहिणी ॥२२३०॥
भानोः । (सु।र। १३१३, वीरस्य)