विश्वास-प्रस्तुतिः - २२०६
मौनान् मूर्खः प्रवचनपटुर् वातुलो जल्पको वा
धृष्टः पार्श्वे वसति नियतं दूरतश् चाप्रगल्भः ।
क्षान्त्या भीरुर् यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनाम् अप्य् अगम्यः ॥२२०६॥
मूलम् - २२०६

कस्यचित् । (न्स् ३५)
विश्वास-प्रस्तुतिः - २२०७
गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां
कुर्वन्न् अयं प्रहसनस्य नटः कृतो’सि ।
न त्वां पुनः पल्लितवर्णकभाजम् एतन्
नाट्येन केन नटयिष्यति दीर्घम् आयुः ॥२२०७॥
मूलम् - २२०७

मुरारेः । (अर् ३।१, सु।र। १५२६)
विश्वास-प्रस्तुतिः - २२०८
यद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा
नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि ।
काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे
तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥२२०८॥
मूलम् - २२०८

सिल्हणस्य । (सु।र। १६०२, स्स् १।१४)
विश्वास-प्रस्तुतिः - २२०९
प्रणमत्य् उन्नतिहेतोर् जीवनहेतोर् विमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकाद् अन्यः ॥२२०९॥
मूलम् - २२०९
प्रणमत्य् उन्नतिहेतोर् जीवनहेतोर् विमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकाद् अन्यः ॥२२०९॥
कस्यचित् । (सा।द। उन्देर् १०।९३)
विश्वास-प्रस्तुतिः - २२१०
हसति हसति स्वामिन्य् उच्चैः रुदत्य् अपि रोदिति
गुणसमुदितं प्रेष्याकारं प्रनिन्दति निन्दति ।
द्रविणकणिकाक्रीतं यन्त्रं प्रनृत्यति नृत्यति
प्रचलदसिभृद्दोल्र्दण्डारिं प्रधावति धावति ॥२२१०॥
मूलम् - २२१०

कस्यचित् । (स्व् ३२३२)