विश्वास-प्रस्तुतिः - २२०१
वरं मृतो न तु क्षुद्रस् तथापि महद् अन्तरम् ।
एकस्य बन्धुर् नादत्ते नामान्य् अस्याखिलो जनः ॥२२०१॥
मूलम् - २२०१
वरं मृतो न तु क्षुद्रस् तथापि महद् अन्तरम् ।
एकस्य बन्धुर् नादत्ते नामान्य् अस्याखिलो जनः ॥२२०१॥
शब्दार्णवस्य । (सु।र। १३२३)
विश्वास-प्रस्तुतिः - २२०२
जीवतापि शवेनेव कृपणन न दीयते ।
मांसं वर्धयतानेन काकस्योपकृतिः कृता ॥२२०२॥
मूलम् - २२०२
जीवतापि शवेनेव कृपणन न दीयते ।
मांसं वर्धयतानेन काकस्योपकृतिः कृता ॥२२०२॥
कविराजस्य । (सु।र। १३२५)
विश्वास-प्रस्तुतिः - २२०३
दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः ॥२२०३॥
मूलम् - २२०३
दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः ॥२२०३॥
गोभटस्य । (सू।मु। ९।१३, सु।र। १३२७)
विश्वास-प्रस्तुतिः - २२०४
असम्भोगेन सामान्यं कृपणस्य धनं परैः ।
अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ॥२२०४॥
मूलम् - २२०४
असम्भोगेन सामान्यं कृपणस्य धनं परैः ।
अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ॥२२०४॥
श्रीव्यासपादानाम् । (सू।मु। ९।१)
विश्वास-प्रस्तुतिः - २२०५
कृपणस्यास्तु दारिद्र्यं कार्पण्यावृतिकारकम् ।
विभवस् तस्य तद्दोषघोषणापटुडिण्डिमः ॥२२०५॥
मूलम् - २२०५
कृपणस्यास्तु दारिद्र्यं कार्पण्यावृतिकारकम् ।
विभवस् तस्य तद्दोषघोषणापटुडिण्डिमः ॥२२०५॥
तेषाम् एव । (सु।र। १३२४)