विश्वास-प्रस्तुतिः - २१७६
एते स्नेहमया इति मा मा क्षुद्रेषु यात विश्वासम् ।
सिद्धार्थानाम् एषां स्नेहो’प्य् अश्रूणि पातयति ॥२१७६॥
मूलम् - २१७६
एते स्नेहमया इति मा मा क्षुद्रेषु यात विश्वासम् ।
सिद्धार्थानाम् एषां स्नेहो’प्य् अश्रूणि पातयति ॥२१७६॥
गोभटस्य । (सु।र। १२९६)
विश्वास-प्रस्तुतिः - २१७७
को’र्थान् प्राप्य न गर्वितो भुवि नरः कस्यापदोस् तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः को’र्थो गतो गौरवं
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥२१७७॥
मूलम् - २१७७

कस्यचित् । (स्व् ३४७०, शा।प। १५३४)
विश्वास-प्रस्तुतिः - २१७८
दूराद् उच्छ्रितपाणिर् आर्द्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तोत्तरः ।
अन्तर्गूढविषो बहिर् मधुमयश् चातीव मायापटुः
को नामायम् अपूर्वनाटकविधिर् यः शिक्षितो दुर्जनैः ॥२१७८॥
मूलम् - २१७८

बिन्दुशर्मणः । (स्व् ३४२)
विश्वास-प्रस्तुतिः - २१७९
गुणोत्कर्षद्वेषात् प्रकृतिमहताम् अप्य् असदृशं
खलः किञ्चिद् वाक्यं रचयति च विस्तारयति च ।
न चेद् एषां तादृक् कमलकलिकार्धप्रतिनिधौ
मुनेर् गण्डूषे’ब्धिः स्थित इति कुतो’यं कलकलः ॥२१७९॥
मूलम् - २१७९

विश्वास-प्रस्तुतिः - २१८०
शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखम् अनक्षरं स्वाकृतेः ।
प्रभुर् धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥२१८०॥
मूलम् - २१८०

शिल्हणस्य । (न्स् १०, स्व् ३४५८, सा।द। १०।११०, शा।प। १५३०)