०३५ सज्जनः

विश्वास-प्रस्तुतिः - २१७१

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
अहो सुमनसां वृत्तिर् वामदक्षिणयोः समा ॥२१७१॥

मूलम् - २१७१

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
अहो सुमनसां वृत्तिर् वामदक्षिणयोः समा ॥२१७१॥

गोभटस्य । (सु।र। १२३२, शा।प। १९९)

विश्वास-प्रस्तुतिः - २१७२

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥२१७२॥

मूलम् - २१७२

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥२१७२॥

केशटस्य । (सु।र। १२४१)

विश्वास-प्रस्तुतिः - २१७३

सुजनो न याति वैरं परहितबुद्धिर् विनाशकाले’पि ।
छेदे’पि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥२१७३॥

मूलम् - २१७३

सुजनो न याति वैरं परहितबुद्धिर् विनाशकाले’पि ।
छेदे’पि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥२१७३॥

श्रीव्यासपादानाम् । (स्व् २४१, शा।प। २३७, सू।मु। ६।१२)

विश्वास-प्रस्तुतिः - २१७४

असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनुधनः
प्रियावृत्तिर् न्याय्या चरितम् असुभङ्गे’प्य् अमलिनम् ।
विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां
सतां केनोद्दिष्टं विषममसिधाराव्रतम् इदम् ॥२१७४॥

मूलम् - २१७४

धर्मकीर्तेः । (सु।र। १२१३, स्व् २८०)

विश्वास-प्रस्तुतिः - २१७५

ये दीनेषु दयालवः स्पृशति यान् अल्पो’पि न श्रीमदो
व्यग्रा ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।
स्वस्थाः सत्य् अपि यौवनोदयमहाव्याधिप्रकोपे’पि ये
ते भूमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥२१७५॥

मूलम् - २१७५

शब्दार्णवस्य ॥ (सु।र। १२३८, शा।प। २२८, सू।मु। ६।३०)