विश्वास-प्रस्तुतिः - २१६६
धन्यास् ते भुवनं पुनन्ति कवयो येषाम् अजस्रं गवाम्
उद्दामध्वनिपल्लवेन परितः पूता दिशां भित्तयः ।
धिक् तान् निःस्वविलासिनः कविखलांल् लोकद्वयद्रोहिणो
नित्याकम्पितचेतसः परगवीदोहेन जीवन्ति ये ॥२१६६॥
मूलम् - २१६६

जलचन्द्रस्य ।
विश्वास-प्रस्तुतिः - २१६७
बद्धो लम्बितचूडम् अञ्जलिर् अयं वाणि क्षमस्वामृतं
न ब्रूमस् त्वयि देवभावसुलभं न द्योतते तन्महः ।
स्याच् चेद् ईषद् अपि प्रसह्य रसनाटङ्कैः कथं खण्डशश्
छिन्दन्तो भवतीं कवीन्द्रघटितां जीवन्त्य् अमी दस्यवः ॥२१६७॥
मूलम् - २१६७

वैद्यगदाधरस्य ।
विश्वास-प्रस्तुतिः - २१६८
निःशङ्कं हर काञ्चनान्य् अनिभृतं दारान् गुरोः शीलय
स्वच्छन्दं पिब वारुणीं जहि निरातङ्कं द्विजानां कुलम् ।
तैस् तैः पातकिभिः समं वस सुखं मा सत्कवीनां कृथाः
स्तेयं सूक्तिनिधानसद्मनि दुरुच्छेदं हि तत्किल्बिषम् ॥२१६८॥
मूलम् - २१६८

तस्यैव ।
विश्वास-प्रस्तुतिः - २१६९
इयं गौर् एका नः क्वचिद् अपि न संयोजनविधा
वमुष्याः पश्यामो रसभरमुचः काञ्चिद् अपराम् ।
गले बद्धा दध्मो यदि न धृइतिर् उद्दामविधृतौ
भयं गोचोरेभ्यस् तद् इह क उपायः प्रभवतु ॥२१६९॥
मूलम् - २१६९

सेल्हूकस्य ।
विश्वास-प्रस्तुतिः - २१७०
हृत्कण्ठश्रुतिभूषणानि बहुशो भ्रातः सुवर्णान्य् अपि
स्वान्य् अस्माभिर् उपाहृतानि विपणिस्थानेषु दैन्यान् न किम् ।
धिक् कर्माणि तुलैव नास्ति न कषग्रावा न मानक्रमो
न क्रेता न परीक्षकः परम् अभूद् उच्चैर् भयं दुर्जनान् ॥२१७०॥
मूलम् - २१७०

जितारेः ।