विश्वास-प्रस्तुतिः - २१५६
यद् एतद्वागर्थव्यतिकरमयं किञ्चिद् अमृतं
तद् आनन्दस्यन्दैः सहृदयमनांसि स्नपयति ।
इदं काव्यं तत्त्वं स्फुरति तु यद् अत्रानुपरमं
तद् अन्तर्बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ॥२१५६॥
मूलम् - २१५६
यद् एतद्वागर्थव्यतिकरमयं किञ्चिद् अमृतं
तद् आनन्दस्यन्दैः सहृदयमनांसि स्नपयति ।
इदं काव्यं तत्त्वं स्फुरति तु यद् अत्रानुपरमं
तद् अन्तर्बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ॥२१५६॥
हृषीकेशस्य (सु।र। १७१५, सू।मु। ४।३४)
विश्वास-प्रस्तुतिः - २१५७
कवलयति न चेतस् तस्य दारिद्र्यदुःखं
न च पिशुनजनोक्तिः कर्णकण्डूं करोति ।
वरकविकृतगोष्ठीबन्धगन्धोपभोगे
य इह मधु वमन्तीं काव्यचिन्तां करोति ॥२१५७॥
मूलम् - २१५७
कवलयति न चेतस् तस्य दारिद्र्यदुःखं
न च पिशुनजनोक्तिः कर्णकण्डूं करोति ।
वरकविकृतगोष्ठीबन्धगन्धोपभोगे
य इह मधु वमन्तीं काव्यचिन्तां करोति ॥२१५७॥
व्याडेः ।
विश्वास-प्रस्तुतिः - २१५८
एतत् कवीन्द्रमुखचन्द्रमसः कदाचित्
काव्याभिधानम् अमृतं यदि नागालिष्यत् ।
संसारिणां विविधदुःखसहस्रभाजां
चेतोविनोदसदनं किम् इहाभविष्यत् ॥२१५८॥
मूलम् - २१५८
एतत् कवीन्द्रमुखचन्द्रमसः कदाचित्
काव्याभिधानम् अमृतं यदि नागालिष्यत् ।
संसारिणां विविधदुःखसहस्रभाजां
चेतोविनोदसदनं किम् इहाभविष्यत् ॥२१५८॥
सुरभेः ।
विश्वास-प्रस्तुतिः - २१५९
ते वर्णाः सपदक्रमास् तद् अभिधावैदग्ध्यम् अव्याहृतं
गुम्फः को’पि सपक्त्रिमः सहृदयास्वाद्यो रसः को’प्य् असौ ।
हे सभ्याः परिभाव्य मादृशकृतीर् ब्रूत क्वचिन् निष्कृतं
किं तत्रास्त्य् अपरं पुरातनकवेर् येनैष कोलाहलः ॥२१५९॥
मूलम् - २१५९

गोसोकस्य ।
विश्वास-प्रस्तुतिः - २१६०
अनुद्घुष्टः शब्दैर् अथ च घटनात् प्रस्फुटरसः
पदानाम् अर्थात्मा रमयति नतूत्तानितरसः ।
यथा किञ्चिद् दृश्यः पवनचलचीनांशुकतया
स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रितवपुः ॥२१६०॥
मूलम् - २१६०
अनुद्घुष्टः शब्दैर् अथ च घटनात् प्रस्फुटरसः
पदानाम् अर्थात्मा रमयति नतूत्तानितरसः ।
यथा किञ्चिद् दृश्यः पवनचलचीनांशुकतया
स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रितवपुः ॥२१६०॥
धर्माशोकस्य । (सु।र। १७०५)