विश्वास-प्रस्तुतिः - २१५१
सुवर्णालङ्कारा प्रकटितरसाश्लेषनिपुणा
स्फुरद्वैदर्भोक्तिर् ललितपदबन्धक्रमगतिः ।
लसद् भूयो भावा मृदुर् अपि विमर्दोचिततनुः
कवीन्द्र त्वद्वाणी हरति हरिणाक्षीव हृदयम् ॥२१५१॥
मूलम् - २१५१

साकोकस्य । (सु।र। १७१६)
विश्वास-प्रस्तुतिः - २१५२
घनरसमयी गभीरा वक्रिमसुभगोपजीविता कविभिः ।
अवगाढा च पुनीते गङ्गा बङ्गालवाणी च ॥२१५२॥
मूलम् - २१५२
घनरसमयी गभीरा वक्रिमसुभगोपजीविता कविभिः ।
अवगाढा च पुनीते गङ्गा बङ्गालवाणी च ॥२१५२॥
बङ्गालस्य ।
विश्वास-प्रस्तुतिः - २१५३
वाणि व्रज सुरलोकं त्रिशरणपालो’पि देवि तत्रैव ।
सम्प्रति काव्यपरिश्रमवधिरैर् अवधीरणां यासि ॥२१५३॥
मूलम् - २१५३
वाणि व्रज सुरलोकं त्रिशरणपालो’पि देवि तत्रैव ।
सम्प्रति काव्यपरिश्रमवधिरैर् अवधीरणां यासि ॥२१५३॥
त्रिपुरारिपालस्य ।
विश्वास-प्रस्तुतिः - २१५४
पिपासुः पीयूषं त्वम् असि सरसस्वादुमधुरं
श्रुतिभ्याम् अश्रान्तः पिब मधुरमृद्वीः कविगिरः ।
अथैताः सन्तोषं विदधति न चेच् चेतसि ततः
सुधापि स्यान् मन्ये पृथुवमथुलाभाय भवतः ॥२१५४॥
मूलम् - २१५४

धञ्जोकस्य ।
विश्वास-प्रस्तुतिः - २१५५
इयं गौर् उद्दामा तव निबिडबन्धापि हि कथं
न वैदर्भाद् अन्यत् स्पृशति सुलभत्वे’पि हि कथम् ।
अवन्ध्या च ख्याता भुवि कथम् अगम्या कविवृषैः
कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥२१५५॥
मूलम् - २१५५

शब्दार्णवस्य । (सु।र। १७२५)