विश्वास-प्रस्तुतिः - २१४६
षट्तर्कान् अपि शब्दशासनम् अपि स्थानैः स्थितं पञ्चभिर्
मीमांसाद्वयम् अप्य् अनन्यसदृशीं साहित्यविद्याम् अपि ।
विद्मः किं च महाविकल्पबहलज्वालावलीतापितेष्व्
आस्माकेषु न जल्पवह्निषु पुनः कैः कैः पतङ्गायितम् ॥२१४६॥
मूलम् - २१४६

तपस्विनः ।
विश्वास-प्रस्तुतिः - २१४७
तावत् तार्किकचक्रवर्तिपदवी तावत् कवीनां गिरस्
तावच् चाप्रतिमल्लतामदभरः साहित्यपाण्डित्ययोः ।
यावन् न प्रतिपर्वनिर्भरसुधानिर्वाजबीजं क्षणाद्
वाग्वल्ल्यो विलसन्ति कर्णकुहरे श्रीदेवबोधेरिताः ॥२१४७॥
मूलम् - २१४७

देवबोधस्य ।
विश्वास-प्रस्तुतिः - २१४८
बिन्दुद्वन्द्वरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं
कर्मेत्य् अन्वयकल्पनां विदधते ये के’पि तेभ्यो नमः ।
ये तु ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्गैर् गिराम्
उल्लासैः कवयन्ति वल्लणकविस् तेष्व् एव सन्नह्यते ॥२१४८॥
मूलम् - २१४८

वल्लणस्य ।
विश्वास-प्रस्तुतिः - २१४९
यथा यूनस् तद्वत् परमरमणीयापि रमणी
कुमाराणाम् अन्तःकरणहरणं कैव कुरुते ।
मदुक्तिश् चेद् अन्तर् मदयति सुधीभूय सुधियः
किम् अस्या नाम स्याद् अरसपुरुषानादरभरैः ॥२१४९॥
मूलम् - २१४९

कविपण्डितश्रीहर्षस्य । (न्च् २२।१५२)
विश्वास-प्रस्तुतिः - २१५०
सर्वस्वं गृहवर्तिकुन्तलपतिर् गृह्णातु तन् मे पुनर्
भाण्डागारम् अखण्डम् एव हृदये जागर्ति सारस्वतम् ।
भोः क्षुद्रास् त्यजत प्रमोदम् अचिराद् एष्यन्ति मन्मन्दिरं
हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढाः श्रियः ॥२१५०॥
मूलम् - २१५०

सिल्हणस्य ।