विश्वास-प्रस्तुतिः - २१४१
निष्पन्ने सति चन्द्रचूडचरिते तत्तन्नृपप्रक्रिया
जातैः सार्धम् अरातिराजकशिरोरत्नाञ्जलीनां त्रयम् ।
सप्तस्वर्णशतानि विंशतिशतीरूप्यस्य लक्षत्रयं
ग्रामाणां शतम् अन्तरङ्गकवये चाणक्यचन्द्रो ददौ ॥२१४१॥
मूलम् - २१४१

उमापतिधरस्य ।
विश्वास-प्रस्तुतिः - २१४२
दन्तिव्यूहं कनककलितं चामरे हेमदण्डं
यो गौडेन्द्राद् अलभत कविक्ष्माभृतां चक्रवर्ती ।
ख्यातो यश् च श्रुतिधरतया विक्रमादित्यगोष्ठी
विद्याभर्तुः खलु वररुचेर् आससाद प्रतिष्ठाम् ॥२१४२॥
मूलम् - २१४२

विश्वास-प्रस्तुतिः - २१४३
धोयीकस्य ।
कनककुन्डलमण्डितभाषिणे
शकरिपुर् विषयान् दश विद्विषः ।
मगधकेकयकेरलकोशलान्
करिशतं च मदालसलोचनम् ॥२१४३॥
मूलम् - २१४३
धोयीकस्य ।
कनककुन्डलमण्डितभाषिणे
शकरिपुर् विषयान् दश विद्विषः ।
मगधकेकयकेरलकोशलान्
करिशतं च मदालसलोचनम् ॥२१४३॥
अमरोः ।
विश्वास-प्रस्तुतिः - २१४४
अमुष्मै चौराय प्रतिनिहतमृत्युप्रतिभिये
प्रभुः प्रीतः प्रादाद् उपरितनपादद्वयकृते ।
सुवर्णानां कोटीर् दश दशनकोटिक्षतगिरीन्
गजेन्द्रानप्य् अष्टौ मदमुदितकूजन् मधुलिहः ॥२१४४॥
मूलम् - २१४४

तस्यैव ।
विश्वास-प्रस्तुतिः - २१४५
श्लोको’यं हरिषाभिधानकविना देवस्य तस्याग्रतो
यावद् यावद् उदीरितः शकवधूवैधव्यदीक्षागुरोः ।
तावत् तावद् उपोढसान्द्रपुलकस् तस्मै स देवो ददौ
लक्षं लक्षम् अखण्डितं मधुकरव्यालोलगण्डं गजम् ॥२१४५॥
मूलम् - २१४५