विश्वास-प्रस्तुतिः - २१३६
विन्यस्ता विकचप्रसूनघटनाचार्येण कण्ठोचिता
मालेयं भुजगभ्रमेण भवता जन्मान्ध किं धूयते ।
एतस्याः क्षतिर् अस्तु नाम कियती संवीतहासोद्गमास्
त्वाम् अन्योन्यकरार्पणप्रणयिनः पश्यन्ति विश्वे जनाः ॥२१३६॥
मूलम् - २१३६

जलचन्द्रस्य ।
विश्वास-प्रस्तुतिः - २१३७
अवधेहि क्षणम् एहि भ्रातर् भावज्ञ भावय गिरं नः ।
चरमे चकास्ति चेतसि मूकस्वप्नोपमो भावः ॥२१३७॥
मूलम् - २१३७
अवधेहि क्षणम् एहि भ्रातर् भावज्ञ भावय गिरं नः ।
चरमे चकास्ति चेतसि मूकस्वप्नोपमो भावः ॥२१३७॥
गोसोकस्य ।
विश्वास-प्रस्तुतिः - २१३८
स्तम्भावधेहि निमिषं पठामि सूक्तीः स्वचित्तनिर्वृत्तये ।
मा बुध्यस्व न तावद् वाग् उल्काभिः कदर्थयसि ॥२१३८॥
मूलम् - २१३८
स्तम्भावधेहि निमिषं पठामि सूक्तीः स्वचित्तनिर्वृत्तये ।
मा बुध्यस्व न तावद् वाग् उल्काभिः कदर्थयसि ॥२१३८॥
वल्लणस्य ।
विश्वास-प्रस्तुतिः - २१३९
श्रीमद्भिर् द्रविणव्ययव्यतिकरक्लेशाद् अवज्ञायसे
द्वेषान् भःपरिपूर्णकर्णकुहरैर् नाकर्ण्यसे सूरिभिः ।
इत्थं व्यर्थितवाञ्छितेषु हि मुधैवास्मासु किं खिद्यसे
मातः काव्यसुधे कथं क्व भवतीम् उन्मुद्रयामो वयम् ॥२१३९॥
मूलम् - २१३९

तस्यैव ।
विश्वास-प्रस्तुतिः - २१४०
अर्वाचीनवचः प्रपञ्चसुखिनां दुःशिक्षितानां पुरो
गम्भीरं कविपुङ्गवस्य किम् अहो सर्वस्वम् उद्धाट्यते ।
व्यर्थं कर्दमगन्धगौरवहृतग्रामीणगोष्ठीमुखे
को’यं नाम सचेतनो’स्ति य इह प्रस्तौति कस्तूरिकाम् ॥२१४०॥
मूलम् - २१४०