विश्वास-प्रस्तुतिः - २१२१
त्रैलोक्यम् उदरे विष्णोस् तादृग् एव व्यवस्थितम् ।
तादृग् अन्यादृग् अप्य् अस्ति हृदये तु महाकवेः ॥२१२१॥
मूलम् - २१२१
त्रैलोक्यम् उदरे विष्णोस् तादृग् एव व्यवस्थितम् ।
तादृग् अन्यादृग् अप्य् अस्ति हृदये तु महाकवेः ॥२१२१॥
वसुकल्पस्य ।
विश्वास-प्रस्तुतिः - २१२२
यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो नाष्टाभिर् अप्य् अब्जभूः
सक्न्दो द्वादशभिस् तथा न मघवा चक्षुःसहस्रेण यत् ।
सम्भूयापि जगत्त्रयस्य नयनैर् द्रष्टुं न यत् पार्यते
प्रत्याहृत्य दृशौ समाहितधियः पश्यन्ति तत्पण्डिताः ॥२१२२॥
मूलम् - २१२२

शालिकनाथस्य । (सु।र। १२४९)
विश्वास-प्रस्तुतिः - २१२३
उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं
सदा पान्थः पूषा गगनपरिमाणं कलयति ।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ॥२१२३॥
मूलम् - २१२३
उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं
सदा पान्थः पूषा गगनपरिमाणं कलयति ।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ॥२१२३॥
राजशेखरस्य । (बा।रा। १।८, स्व् ३२२, सा।द। उन्देर् ७।४, सु।र। १२२३)
विश्वास-प्रस्तुतिः - २१२४
निधानं विद्यानां कुलगृहम् अपारस्य यशसः
कला सम्पद्रत्नव्रततिविटपानां सुरतरुः ।
शुचि क्षौणीन्द्राणां सुचरितकथादर्पणतलं
प्रकृत्या गम्भीरः कविर् इति हि शब्दो विजयते ॥२१२४॥
मूलम् - २१२४
निधानं विद्यानां कुलगृहम् अपारस्य यशसः
कला सम्पद्रत्नव्रततिविटपानां सुरतरुः ।
शुचि क्षौणीन्द्राणां सुचरितकथादर्पणतलं
प्रकृत्या गम्भीरः कविर् इति हि शब्दो विजयते ॥२१२४॥
कस्यचित् ।
॥२१२५॥ नास्त्य् अत्र श्लोकः ।