विश्वास-प्रस्तुतिः - २११६
द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां
क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् ।
धन्या सा रजनी तद् एव सुदिनं धन्यः स एव क्षणो
यत्राझातचरश्चिरान् नयनयोः सीमानम् एति प्रियः ॥२११६॥
मूलम् - २११६

वसुधरस्य । (सु।र। १६४९)
विश्वास-प्रस्तुतिः - २११७
तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो
गन्तव्यं भवता न तद्गृहम् इति त्वं वार्यसे यासि चेत् ।
गाढं मेखलया बलान् नियमितः कर्णोत्पलेनाहतः
क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ॥२११७॥
मूलम् - २११७

छित्तिपस्य । (शा।प। १६५०)
विश्वास-प्रस्तुतिः - २११८
जाने सासहना तथाहम् असकृन् मय्य् अङ्गणस्थे पुनस्
तस्याः सम्भविता स साध्वसरसः को’पि प्रकोपापहः ।
येनोद्यत्पुलकप्रकम्पविकलैर् अङ्गैः क्व कर्णोत्पलं
कुत्रात्मा क्व च मेखलेति गलितः प्रायः स मानग्रहः ॥२११८॥
मूलम् - २११८

वसुन्धरस्य । (सु।र। १६५१)
विश्वास-प्रस्तुतिः - २११९
अन्या साधिगता त्वया क्व युवती यस्याः स मानग्रहो
याते लोचनगोचरं प्रियतमे सम्प्रत्य् अपक्रामति ।
अस्माकं पुनर् उग्रपूरुषशताश्लेषप्रगल्भात्मनाम्
एतादृश्य् अनभिज्ञपूरुषपरिष्वङ्गे कुतः साध्वसम् ॥२११९॥
मूलम् - २११९

छित्तिपस्य ।
विश्वास-प्रस्तुतिः - २१२०
अस्माभिः कलितं पुरा न भवती भुक्ता नृभिः कैर् अपि
प्रौढा मानवशालिनीति चलितं चेतः सकामं त्वयि ।
धिक् त्वां सम्प्रति सद्भुजङ्गजनतासंश्लेषम् आतन्वती
गम्या सर्वजनस्य वारवनितेवोत्क्षेपणीयासि नः ॥२१२०॥
मूलम् - २१२०

वसुन्धरस्य ।