०२२ रावणशिरश्छेदः

विश्वास-प्रस्तुतिः - २१०६

कण्ठच्छेदविशीर्यमाणरुधिरप्राग्भारभग्नद्युतेर्
येन स्मेरमुखेन होमशिखिनः सन्धुक्षणाकाङ्क्षिणा ।
भ्रूभङ्गः शितिकण्ठकण्ठफणिने फूत्कारहेतोः कृतः
शौटीर्यव्रततुष्टधूर्जटिर् असौ किं वर्ण्यते रावणः ॥२१०६॥

मूलम् - २१०६

कस्यचित् ।

विश्वास-प्रस्तुतिः - २१०७

स्वसत्त्वस्योद्रेकाद् अपि दश शिरांसि स्वयम् अयं
सकृच् छित्त्वा छित्त्वा भुजपरिघमृष्ठासृग् अभितः ।
मुखानां स्मेराक्ष्णां सरभसविकाशाद् उदयिनां
किम् अद्राक्षील् लक्ष्मीं पतितपतितानां निपतताम् ॥२१०७॥

मूलम् - २१०७

कस्य्चचित् ।

विश्वास-प्रस्तुतिः - २१०८

निस्त्रिंशप्रतिबिम्बिते’पि यदुरःकम्पो न वीरव्रत
प्रौढिः सेति न चन्द्रहासमधुनोत्कण्टच्छिदा पर्वणि ।
जूहुषुः स्वशिरांसि शङ्करपुरोहाकारवैरेण यः
स्वाहाकारम् उदाहरन् न स दशग्रीवो गिरां गोचरः ॥२१०८॥

मूलम् - २१०८

विश्वास-प्रस्तुतिः - २१०९

श्रीकण्ठस्य पुरः - परस्-पर-बलाधिक्षेप-कक्षावतां
बाहूनां दशक-द्वयं दश-शिरश्-छेदे विवादाकुलम्
प्रत्येकं शमयत्य् असाव् अभिमत-व्याक्षेप-सापत्रपश्
छिन्धि त्वं, जुहुधि त्वम् इत्य् उपदिशन्न् एकः परं रावणः ॥२१०९॥

English - शङ्करः

Ravana’s twenty arms criticize one another’s prowess and fight amongst themselves to cut his ten heads before Shiva; so, he pacifies them by assigning a job to each - “You cut the head”, “You offer the head into fire”.

मूलम् - २१०९

श्रीकण्ठस्य पुरः परस्परबलाधिक्षेपकक्षावतां
बाहूनां दशकद्वयं दशशिरश्छेदे विवादाकुलम् ।
प्रत्येकं शमयत्य् असाव् अभिमतव्याक्षेपसापत्रपश्
छिन्धि त्वं जुहुधि त्वम् इत्य् उपदिशन्न् एकः परं रावणः ॥२१०९॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - २११०

लूने पञ्च ततश् चतुष्टयम् इति स्रक्सन्निवेशैः शिरः
पद्मैर् अन्यतमावलोकनमितैर् उच्छोणितैर् अर्चितः ।
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानम् अध्यासयन्
शम्भोर् उद्धतसाहसैकरसिकः कैर् न स्तुतो रावणः ॥२११०॥

मूलम् - २११०