०२१ रावणः

विश्वास-प्रस्तुतिः - २१०१

दोर्दण्डास् त इमे त्रिलोचनगिरेर् उत्तम्भसम्भावितास्
तान्य् एतानि दशाननानि दशभिर् दिग्भिर् यदाज्ञा कृता ।
यस्याद्यापि स एव वीर्यमहिमा तस्मिन् नरस् तापसः
शोच्यः सो’पि रिपुः स चैव कुपितस् तस्यापि दूतः कपिः ॥२१०१॥

मूलम् - २१०१

कस्यचित् ।

विश्वास-प्रस्तुतिः - २१०२

धन्यः श्रीदशकन्धरः परम् अयं रक्षोगणग्रामणीर्
एका सा निकषा परं तनयसूर्यस्याः सुतो रावणः ।
द्वारे निर्जरशेखरार्चितपदद्वन्द्वश् चिरं वृत्रहा
यस्यास्थानविलम्बकारणकथाताम्यन्मनास् तिष्ठति ॥२१०२॥

मूलम् - २१०२

विश्वास-प्रस्तुतिः - २१०३

रुद्रादेस् तुलनं स्वकण्ठविपिनच्छेदो हरेर् वासनं
कारावेश्मनि पुष्करस्य चजयो यस्येदृशाः केलयः ।
सो’हं दुर्दमबाहुदण्डसचिवो लङ्केश्वरस् तस्य मे
का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ॥२१०३॥

मूलम् - २१०३

कस्यचित् । (सु।र। १५४८, बा।रा। १।५१)

विश्वास-प्रस्तुतिः - २१०४

भग्नं भग्नम् उमापतेर् अजगवं बाली क्षतश् च क्षतस्
तालाः सप्त हता हताश् च जलधिर् बद्धश् च बद्धश् च सः ।
आः किं तेन सशैलसागरधराधारोरगेन्द्रास्पदं
साद्रिं रुद्रम् उदस्यतो निजभुजाञ्जानात्ययं रावणः ॥२१०४॥

मूलम् - २१०४

विश्वास-प्रस्तुतिः - २१०५

न्यक्कारो ह्य् अयम् एव मे यद् अरयस् तत्राप्य् असौ तापसः
सो’प्य् अत्रैव निहन्ति राक्षसभटान् जीवत्य् अहो रावणः ।
धिक् धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किम् एभिर् भुजैः ॥२१०५॥

मूलम् - २१०५

कस्यचित् । (ध्वन्यालोकः ३।१६, सा।द। उन्देर् १।२, बा।रा।शेष ३।११)