०२० हनूमदादिशौर्यम्

विश्वास-प्रस्तुतिः - २०९६

वक्तीति वानरबलानि हसन् हनूमान्
मद्रोमवल्लिषु दृढं कुरु तवावलम्बम् ।
येनैव सागरम् अहं लघु लङ्घयामि
किं सेतुना समरकर्मणि वो नयामि ॥२०९६॥

मूलम् - २०९६

वक्तीति वानरबलानि हसन् हनूमान्
मद्रोमवल्लिषु दृढं कुरु तवावलम्बम् ।
येनैव सागरम् अहं लघु लङ्घयामि
किं सेतुना समरकर्मणि वो नयामि ॥२०९६॥

राजशेखरस्य । (बा।रा। ७।२७)

विश्वास-प्रस्तुतिः - २०९७

नीलेन सैन्यपतिना प्रभुताडनान्ते
मुक्तस् तथा किलकिलाध्वनिर् एष रौद्रः ।
स्रष्टापि वाञ्छति सरोजभवः श्रवांसि
शङ्के यथा करयुगेन मुधा पिधातुम् ॥२०९७॥

मूलम् - २०९७

नीलेन सैन्यपतिना प्रभुताडनान्ते
मुक्तस् तथा किलकिलाध्वनिर् एष रौद्रः ।
स्रष्टापि वाञ्छति सरोजभवः श्रवांसि
शङ्के यथा करयुगेन मुधा पिधातुम् ॥२०९७॥

तस्यैव । (बा।रा। ७।२१)

विश्वास-प्रस्तुतिः - २०९८

कियान् एष क्षाराम्बुधिर् अयम् अमुष्याम्बुनिवहो
न कुम्भेनाप्य् अस्यात्मजकरपुटेनैव तुलितः ।
भवद्भिः सप्तैते ननु कपिचमूचक्रपतयः
सहेलं पीयन्तां चुलुकचुलुकैर् अम्बुनिधयः ॥२०९८॥

मूलम् - २०९८

कियान् एष क्षाराम्बुधिर् अयम् अमुष्याम्बुनिवहो
न कुम्भेनाप्य् अस्यात्मजकरपुटेनैव तुलितः ।
भवद्भिः सप्तैते ननु कपिचमूचक्रपतयः
सहेलं पीयन्तां चुलुकचुलुकैर् अम्बुनिधयः ॥२०९८॥

गोसोकस्य ।

विश्वास-प्रस्तुतिः - २०९९

भुजस्तम्भैर् एभिः परिघगुरुभिर् लुण्ठनहठाद्
यशांसि स्वच्छन्दं रणविपणिपण्यानि कपयः ।
असाध्यं स्याद् एतद् यदि च तद् अमीषाम् अकृपणाः
क्रये सन्त्य् एवामी लिखितपठितामूल्यम् असवः ॥२०९९॥

मूलम् - २०९९

भुजस्तम्भैर् एभिः परिघगुरुभिर् लुण्ठनहठाद्
यशांसि स्वच्छन्दं रणविपणिपण्यानि कपयः ।
असाध्यं स्याद् एतद् यदि च तद् अमीषाम् अकृपणाः
क्रये सन्त्य् एवामी लिखितपठितामूल्यम् असवः ॥२०९९॥

तस्यैव ।

विश्वास-प्रस्तुतिः - २१००

मूर्ध्ना जाम्बवतो’भिवाद्य चरणाव् आपृच्छ्य सेनापतीन्
आश्वास्याश्रुमुखान् मुहुः प्रियसखान् प्रेष्यान् समादिश्य च ।
आरम्भं जगृहे महेन्द्रशिखराद् अम्भोनिधेर् लङ्घने
रंहस्वी रघुनाथपादरजसाम् उच्चैः स्मरन् मारुतिः ॥२१००॥

मूलम् - २१००

अभिनन्दस्य ।