०१८ वीरः

विश्वास-प्रस्तुतिः - २०८६

याते कार्मुकविद्यया परिभवं सार्धं गणानां गणैः
षड्वक्त्रे समयं विलङ्घ्य जयिनीम् उद्दिश्य शक्तिं स्थिते ।
हस्तोदस्तपरश्वधः स्वशपथैर् यः स्तम्भितः शम्भुना
विश्वे पश्यत कौतुकं भृगुपतेस् तस्यैव रामो’ङ्कुशः ॥२०८६॥

मूलम् - २०८६

शिह्लणस्य ।

विश्वास-प्रस्तुतिः - २०८७

धात्रीम् एकातपत्रां समिति कृतवता चण्डदोर्दण्डदर्पाद्
आस्थाने पादनम्रप्रतिभटमुकुटादर्शबिम्बोदरेषु ।
उत्क्षिप्तच्छत्रचिह्नं प्रतिफलितम् अपि स्वं वपुर् वीक्ष्य किञ्चित्
सासूयं येन दृष्टाः क्षितितलविलसन् मौलयो भूमिपालाः ॥२०८७॥

मूलम् - २०८७

जयदेवस्य ।

विश्वास-प्रस्तुतिः - २०८८

साधु म्लेच्छनरेन्द्र साधु भवतो मातैव वीरप्रसूर्
नीचेनापि भवद्विधेन वसुधा सुक्षत्रिया वर्तते ।
देवे कुप्यति यस्य वैरिपरिषन्माराङ्कमल्ले पुरः
शस्त्रं शास्त्रम् इति स्फुरन्ति रसनापत्रान्तराले गिरः ॥२०८८॥

मूलम् - २०८८

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - २०८९

आ लङ्कानाथनारीस्तनतरलपयोवीचिमुद्रात् समुद्राद्
आ स्वर्गङ्गातरङ्गावलिविरलशिलादुस्तराद् उत्तराद्रेः ।
आ प्राक्शैलासुरस्त्रीसुरतगतिविदो मग्नभास्वन्मृगाङ्काद्
आ च प्राचेतसाब्धेर् भवतु मम पुरः को’पि यद्य् अस्ति वीरः ॥२०८९॥

मूलम् - २०८९

तस्यैव ।

विश्वास-प्रस्तुतिः - २०९०

इह विजयिनि वंशे कीर्तिधाराकलाप
स्नपितसकललोकः श्रीयशोविग्रहो’भूत् ।
जलघट इव युद्धोत्तालभूपालदर्प
ज्वलनशमनलीलाकोविदः को’पि वीरः ॥२०९०॥

मूलम् - २०९०

इह विजयिनि वंशे कीर्तिधाराकलाप
स्नपितसकललोकः श्रीयशोविग्रहो’भूत् ।
जलघट इव युद्धोत्तालभूपालदर्प
ज्वलनशमनलीलाकोविदः को’पि वीरः ॥२०९०॥

विश्वेश्वरस्य ।