०१६ दिशः

विश्वास-प्रस्तुतिः - २०७६

अमरयुवतिगीतोद्ग्रीवसारङ्गशृङ्गो
ल्लिखितशशिसुधाम्भःशाद्वलारामरम्याम् ।
सुरपतिगजगण्डस्रंसिदानाम्बुधारा
प्रसवसुरभिम् आशां वासवीयां नमामि ॥२०७६॥

मूलम् - २०७६

अमरयुवतिगीतोद्ग्रीवसारङ्गशृङ्गो
ल्लिखितशशिसुधाम्भःशाद्वलारामरम्याम् ।
सुरपतिगजगण्डस्रंसिदानाम्बुधारा
प्रसवसुरभिम् आशां वासवीयां नमामि ॥२०७६॥

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - २०७७

सेयं मेकलमेखलानिलदलद्वीचीनदन्नर्मदा
केषां नाम न लोचनश्रवणयोर् दिग्दक्षिणा प्रीणनम् ।
काञ्चीपत्तनकामिनीनयनयोर् आवर्जिता विभ्रमैर्
अध्वन्याः क इवापरे मुनिर् अतो’गस्त्यो’पि नावर्तते ॥२०७७॥

मूलम् - २०७७

आचार्यगोपीकस्य ।

विश्वास-प्रस्तुतिः - २०७८

वेलाशैलशयालुमांसलशिलाशालूकमज्जत्पयो
वाहव्यूहवराहविभ्रमवती प्रीणाति दिग्वारुणी ।
अस्यां कुड्मलयन् करान् परिहरन् नाशास् त्यजन् पद्मिनीर्
विभ्रत्काञ्चनरागम् अम्बरमणिः सर्वात्मना लीयते ॥२०७८॥

मूलम् - २०७८

तस्यैव ।

विश्वास-प्रस्तुतिः - २०७९

अस्तु स्वस्त्ययनाय दिग्धनपते कैलासशैलाश्रय
श्रीकण्ठाभरणेन्दुविभ्रमदिवानक्तम्भ्रमत्कौमुदी ।
यत्रालं नलकूबराभिसरणारम्भाय रम्भास्फुरत्
पाण्डिम्नैव तनोस् तनोति विरहव्यग्रापि वेशग्रहम् ॥२०७९॥

मूलम् - २०७९

जयदेवस्य ।

विश्वास-प्रस्तुतिः - २०८०

प्राचीम् अभ्रेभकुम्भस्तनकलसलसन्मौलिकाम् इन्द्रपद्मीं
श्रीखण्डक्षोदलेखा दरखचितमुखीं काककान्ताम् अवाचीम् ।
सन्ध्यासिन्दूरमुग्धाम् उदकपरिवृढप्रेयसीं च प्रतीचीं
वन्दे यक्षेन्द्रजायां तरलसुरसरित्तारहाराम् उदीचीम् ॥२०८०॥

मूलम् - २०८०

जलचन्द्रस्य ।