विश्वास-प्रस्तुतिः - २०६६
तीरात् तीरम् उपैति रौति करुणं चिन्तां समालम्बते
कान्तां ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः ।
स्वच्चायाम् अवलोक्य कूजति पुनः कान्तेति हृष्टः खगो
धन्यास् ते खलु ये विमुक्तविषयाः कष्टं परं सङ्गिनाम् ॥२०६६॥
मूलम् - २०६६

कस्यचित् ।
विश्वास-प्रस्तुतिः - २०६७
लीलाम्भोरुहकाननेन विशति ध्वान्तोत्कराशङ्कया
स्वक्रीडोच्छलिताश् च वारिकणिकास् ताराभ्रमात् पश्यति ।
सत्रासं मुहुर् ईक्षते च चकितो हंसं हिमांशुभ्रमान्
न स्वास्थ्यं भजते दिवापि विरहाशङ्की रथाङ्गाह्वयः ॥२०६७॥
मूलम् - २०६७

धर्मपालस्य ।
विश्वास-प्रस्तुतिः - २०६८
मित्रे क्वापि गते सरोरुहवने बद्धानने क्लाम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टान् पुरः सारसान् ।
चक्राह्वाण वियोगिना विसलता नोत्खण्डिता नोज्झिता
वक्त्रे केवलम् अर्गलेव निहिता जीवस्य निर्गच्छतः ॥२०६८॥
मूलम् - २०६८

युवसेनस्य ।
विश्वास-प्रस्तुतिः - २०६९
एह्य् आलिङ्ग त्वरयति मनो दुर्बला वासरश्रीर्
आश्लिष्टासि क्षपय रजनीम् एकिका चक्रवाकि ।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा
दैवाधीनः सपदि भवतीम् अस्वतन्त्रस् त्यजामि ॥२०६९॥
मूलम् - २०६९

भानोः ।
विश्वास-प्रस्तुतिः - २०७०
भङ्क्त्वा भीतो न भुङ्क्ते कुटिलविसलताकोटिम् इन्दोर् वितर्कात्
ताराकारास् तृषार्तो न पिबति पयसां विप्रुषः पत्रसंस्थाः ।
छायाम्भोरुहाणाम् अलिकुलशबलां वेत्ति सन्ध्याम् असन्ध्यां
कान्ताविच्छेदभीरुर् दिनम् अपि रजनीं मन्यते चक्रवाकः ॥२०७०॥
मूलम् - २०७०

रजकसरस्वत्याः ।