०१२ तडागः

विश्वास-प्रस्तुतिः - २०५६

अविरतमधुपानागारम् इन्दिन्दिराणाम्
अभिसरणनिकुञ्जं राजहंसीकुलस्य ।
प्रविततबहुशालं सद्म पद्मालयाया
वितरति रतिम् अक्ष्णोर् एष लीलातडागः ॥२०५६॥

मूलम् - २०५६

अविरतमधुपानागारम् इन्दिन्दिराणाम्
अभिसरणनिकुञ्जं राजहंसीकुलस्य ।
प्रविततबहुशालं सद्म पद्मालयाया
वितरति रतिम् अक्ष्णोर् एष लीलातडागः ॥२०५६॥

श्रीमल्लक्ष्मणसेनदेवस्य ।

विश्वास-प्रस्तुतिः - २०५७

वीचीसमीरधुतकाञ्चनपुण्डरीक
पर्यस्तकेशरपरागपिशङ्गिताम्भः ।
अच्छोदम् ऐक्षत स देवपुरन्ध्रिपाद
लाक्षारुणीकृतशिलातलतीरलेखम् ॥२०५७॥

मूलम् - २०५७

वीचीसमीरधुतकाञ्चनपुण्डरीक
पर्यस्तकेशरपरागपिशङ्गिताम्भः ।
अच्छोदम् ऐक्षत स देवपुरन्ध्रिपाद
लाक्षारुणीकृतशिलातलतीरलेखम् ॥२०५७॥

रत्नाकरस्य ।

विश्वास-प्रस्तुतिः - २०५८

मदतरलमरालप्रेयसीचञ्चकोटि
क्रकचविदलितानि व्यक्तम् इन्दीवराणि ।
निविडयति तडागे यत्र लीलावतीनां
कुवलयदलदामश्यामलो दृष्टिपातः ॥२०५८॥

मूलम् - २०५८

मदतरलमरालप्रेयसीचञ्चकोटि
क्रकचविदलितानि व्यक्तम् इन्दीवराणि ।
निविडयति तडागे यत्र लीलावतीनां
कुवलयदलदामश्यामलो दृष्टिपातः ॥२०५८॥

जलचन्द्रस्य ।

विश्वास-प्रस्तुतिः - २०५९

लुठद्वीचीमौलिः परिपतति पूर्वं चरणयोर्
अथोरू गृह्णाति स्पृशति जघनाभोगम् अभितः ।
करौ धत्ते मध्यं कलयति समाश्लिष्यति कुचा
कचान् अप्य् आदत्ते प्रिय इव तडागो मृगदृशाम् ॥२०५९॥

मूलम् - २०५९

लुठद्वीचीमौलिः परिपतति पूर्वं चरणयोर्
अथोरू गृह्णाति स्पृशति जघनाभोगम् अभितः ।
करौ धत्ते मध्यं कलयति समाश्लिष्यति कुचा
कचान् अप्य् आदत्ते प्रिय इव तडागो मृगदृशाम् ॥२०५९॥

गोवर्धनस्य ।

विश्वास-प्रस्तुतिः - २०६०

एतन् मानिनि मानसं सुरसरो निर्लूनहेमाम्बुजं
पार्वत्या प्रियपूजनार्थम् अमुतो गङ्गासरिन्निर्गता ।
अस्माच् चित्रशिखण्डिभिश् च परमे पर्वण्य् उपादीयते
स्नानोत्तीर्णवृषाङ्कभस्मरजसां सङ्गात् पवित्रं पयः ॥२०६०॥

मूलम् - २०६०

एतन् मानिनि मानसं सुरसरो निर्लूनहेमाम्बुजं
पार्वत्या प्रियपूजनार्थम् अमुतो गङ्गासरिन्निर्गता ।
अस्माच् चित्रशिखण्डिभिश् च परमे पर्वण्य् उपादीयते
स्नानोत्तीर्णवृषाङ्कभस्मरजसां सङ्गात् पवित्रं पयः ॥२०६०॥

राजशेखरस्य । (बा।रा। १०।३५)