००९ अटवी

विश्वास-प्रस्तुतिः - २०४१

प्रत्यासन्नसरांसि कोकिलवधूलीलासुहृद् इच्छद
च्छायालिप्तककुम्भि कोरकहसद्वीरुन्धि विन्ध्याटवी ।
अन्तर्दत्तमनोजरुञ्जि रुचिरक्ष्मारुंहि भृङ्गाकुलत्
त्वङ्नद्धाम्पि लतागृहाणि दधती काञ्चिन् मुचं यच्छति ॥२०४१॥

मूलम् - २०४१

मधोः ।

विश्वास-प्रस्तुतिः - २०४२

मिथः क्रीडत्कोडावलिविलसितोत्खाततटिनी
तटी क्षुब्धोद्गर्जद्गजगहनगर्भेयम् अटवी ।
गुहाभिर् व्याघ्राणां जरदजगरग्राससरुषां
घटत्कारं घोरं प्रतिरववहाभिर् द्रढयति ॥२०४२॥

मूलम् - २०४२

कस्यचित् ।

विश्वास-प्रस्तुतिः - २०४३

सर्पश्वासमरुत्तरङ्गतरलाः क्वापि क्वचिच् छ्वापद
स्फारोद्गीर्णगिरो निरन्तरतमस् तारुण्यमग्नाः क्वचित् ।
क्वापि क्रूरकृशानुदुर्मुखकथाशेषीकृतक्ष्मारुहश्
चेतः सम्प्रति कम्पयन्ति परितो गम्भीरभीमा भुवः ॥२०४३॥

मूलम् - २०४३

जलचन्द्रस्य ।

विश्वास-प्रस्तुतिः - २०४४

क्षुण्णक्ष्मारुहवीथयो विदलितग्रावोपलग्रन्थयः
सिंहस्वीकृतमत्तवारणवधूबद्धार्तकोलाहलाः ।
एताः पल्लवयन्ति चेतसि भयं भल्लूकहिक्कारवैर्
आतङ्कात् पतयालुबालहरिणीगर्भाबिला भूमयः ॥२०४४॥

मूलम् - २०४४

तस्यैव ।

विश्वास-प्रस्तुतिः - २०४५

इह महिषविषाणव्यस्तपाषाणपीठ
स्खलनसुलभरोहिद्गर्भिणीभ्रूणहत्याः ।
कुहरविहरमाणप्रौढभल्लूकहिक्का
चयचकितकिरातस्रस्तशस्त्रा वनान्ताः ॥२०४५॥

मूलम् - २०४५

मुरारेः । (अर् ५।२०)