विश्वास-प्रस्तुतिः - २०३१
उत्प्लुत्य दूरं परिधूय पक्षा
वधो निरीक्ष्य क्षणबद्धलक्ष्यः ।
मध्येजलं चञ्चति दत्तझम्पः
समत्स्य उत्सर्पति मत्स्यरङ्कः ॥२०३१॥
मूलम् - २०३१
उत्प्लुत्य दूरं परिधूय पक्षा
वधो निरीक्ष्य क्षणबद्धलक्ष्यः ।
मध्येजलं चञ्चति दत्तझम्पः
समत्स्य उत्सर्पति मत्स्यरङ्कः ॥२०३१॥
कस्यचित् । (सु।र। ११५५)
विश्वास-प्रस्तुतिः - २०३२
नीडाद् अपक्रम्य विधूय पक्षौ
वृक्षाग्रम् आरुह्य ततः क्रमेण ।
उद्ग्रीवम् उत्पुच्छम् उदेकपादम्
उच्चूडम् उकूजति ताम्रचूडः ॥२०३२॥
मूलम् - २०३२
नीडाद् अपक्रम्य विधूय पक्षौ
वृक्षाग्रम् आरुह्य ततः क्रमेण ।
उद्ग्रीवम् उत्पुच्छम् उदेकपादम्
उच्चूडम् उकूजति ताम्रचूडः ॥२०३२॥
मधोः । (सु।र। ११५६)
विश्वास-प्रस्तुतिः - २०३३
इह सरसि सलीलं चारुपत्रे विधुन्वन्
दरतरलिततिर्यक्चञ्चुकण्डूयिताङ्गः ।
अनुसरति सरागः प्रेयसीम् अग्रयाताम्
अनुपदसम् उदञ्चत्कण्ठनालो मरालः ॥२०३३॥
मूलम् - २०३३
इह सरसि सलीलं चारुपत्रे विधुन्वन्
दरतरलिततिर्यक्चञ्चुकण्डूयिताङ्गः ।
अनुसरति सरागः प्रेयसीम् अग्रयाताम्
अनुपदसम् उदञ्चत्कण्ठनालो मरालः ॥२०३३॥
शिशोकस्य ।
विश्वास-प्रस्तुतिः - २०३४
चञ्चच्–चञ्चल चञ्चुवाञ्छितचलच्चूडाग्रम् उग्रं पतच्
चक्राकारकरालकेशरशटास्फारस्फुरत्कन्धरम् ।
वारं वारम् उदङ्घ्रिलङ्घनप्रेङ्खन्नखक्षुण्णयोः
कामं कुक्कुटयोर् द्वयं द्रुतपदं क्रूरक्रमं युध्यते ॥२०३४॥
मूलम् - २०३४
चञ्चच्–चञ्चल चञ्चुवाञ्छितचलच्चूडाग्रम् उग्रं पतच्
चक्राकारकरालकेशरशटास्फारस्फुरत्कन्धरम् ।
वारं वारम् उदङ्घ्रिलङ्घनप्रेङ्खन्नखक्षुण्णयोः
कामं कुक्कुटयोर् द्वयं द्रुतपदं क्रूरक्रमं युध्यते ॥२०३४॥
कस्यचित् । (शा।प। ५७२, सु।र। ११७१)
विश्वास-प्रस्तुतिः - २०३५
उत्पुच्छः प्रमदोल्लसद्वपुर् अधोविस्रंसिपक्षद्वयः
स्वैरालोकगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः ।
उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस
न्यग्भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः स्वयम् ॥२०३५॥
मूलम् - २०३५
उत्पुच्छः प्रमदोल्लसद्वपुर् अधोविस्रंसिपक्षद्वयः
स्वैरालोकगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः ।
उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस
न्यग्भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः स्वयम् ॥२०३५॥
सोह्लोकस्य । (सु।र। ११८३)