००६ बकः

विश्वास-प्रस्तुतिः - २०२६

गत्वा पुरः कतिचिद् एव पदानि वेगाद्
आकुञ्चितैकचरणो निभृतीकृताक्षः ।
स्वैरं विदूरविततीकृतकन्धरो’यं
मीनं सरो’म्भसि निभालयते बलाकः ॥२०२६॥

मूलम् - २०२६

गत्वा पुरः कतिचिद् एव पदानि वेगाद्
आकुञ्चितैकचरणो निभृतीकृताक्षः ।
स्वैरं विदूरविततीकृतकन्धरो’यं
मीनं सरो’म्भसि निभालयते बलाकः ॥२०२६॥

कामदेवस्य ।

विश्वास-प्रस्तुतिः - २०२७

बलाकाः पान्थानां शिशिरसरसीसीम्नि सरताम्
अमी नेत्रानन्दं ददति चरणाचोटितमुखाः ।
धुनाना मूर्धानं गलबिलविशत्स्फारशफर
स्फुरत्पुच्छानच्छद्युतिशवलबाष्पारुणदृशः ॥२०२७॥

मूलम् - २०२७

बलाकाः पान्थानां शिशिरसरसीसीम्नि सरताम्
अमी नेत्रानन्दं ददति चरणाचोटितमुखाः ।
धुनाना मूर्धानं गलबिलविशत्स्फारशफर
स्फुरत्पुच्छानच्छद्युतिशवलबाष्पारुणदृशः ॥२०२७॥

मधुकण्ठस्य । (सु।र। ११८५)

विश्वास-प्रस्तुतिः - २०२८

हरति पुरत्तः पार्श्वे पश्चाद् वलन्तम् अनारतं
शफरम् अपरित्राणं गृह्णन् बकस् तटिनीतटे ।
प्रविचलगरुत्पालिर् दत्तापरापरसत्वर
त्रिचतुरखरत्रोटीकोटिप्रहार इतस् ततः ॥२०२८॥

मूलम् - २०२८

हरति पुरत्तः पार्श्वे पश्चाद् वलन्तम् अनारतं
शफरम् अपरित्राणं गृह्णन् बकस् तटिनीतटे ।
प्रविचलगरुत्पालिर् दत्तापरापरसत्वर
त्रिचतुरखरत्रोटीकोटिप्रहार इतस् ततः ॥२०२८॥

पियाकस्य ।

विश्वास-प्रस्तुतिः - २०२९

उद्ग्रीवस्तिमितेक्षनस् तत इतः पश्यन् निलीय स्थितं
पादोद्घृष्टिपरस्परप्रतिभयभ्रान्तं चलत्पक्षतिः ।
द्राक्त्रोटीपुरकोटिकुण्ठितरयं प्राक्तिर्यगूर्ध्वीकृतं
गर्भान्तःप्रणयीचकार शफरं कासारचारी बकः ॥२०२९॥

मूलम् - २०२९

उद्ग्रीवस्तिमितेक्षनस् तत इतः पश्यन् निलीय स्थितं
पादोद्घृष्टिपरस्परप्रतिभयभ्रान्तं चलत्पक्षतिः ।
द्राक्त्रोटीपुरकोटिकुण्ठितरयं प्राक्तिर्यगूर्ध्वीकृतं
गर्भान्तःप्रणयीचकार शफरं कासारचारी बकः ॥२०२९॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - २०३०

पयसि सरसः स्वच्छे मत्स्याञ्जिघृक्षुर् इतस् ततो
वलितनयनं मन्दं मन्दं पदं निदधद् बकः ।
वियति विधृतैकाङ्घ्रिस् तिरग् विवर्तितकन्धरो
दलम् अपि चलत् सप्रत्याशं मुहुर् मुहुर् ईक्षते ॥२०३०॥

मूलम् - २०३०

पयसि सरसः स्वच्छे मत्स्याञ्जिघृक्षुर् इतस् ततो
वलितनयनं मन्दं मन्दं पदं निदधद् बकः ।
वियति विधृतैकाङ्घ्रिस् तिरग् विवर्तितकन्धरो
दलम् अपि चलत् सप्रत्याशं मुहुर् मुहुर् ईक्षते ॥२०३०॥

योगेश्वरस्य । (सु।र। ११६४, कस्यचित्)