विश्वास-प्रस्तुतिः - २०१६
पश्योदञ्चदवाञ्चद् अञ्चितवपुः पूर्वार्धपश्चार्धभाक्
स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नार्धलाङ्गुलभृत् ।
दंष्ट्राकोटिविशङ्कटास्यकुहरः कुर्वन् सटाम् उत्कराम्
उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी ॥२०१६॥
मूलम् - २०१६

सुबन्धोः । (सु।र। १६५५, व्, प्। ४९)
विश्वास-प्रस्तुतिः - २०१७
उच्छ्मश्रुर् व्यात्तवक्त्रः प्रविततरसनापल्लवालीढसृक्का
पि गो’ग्रभ्रान्तनेत्रः पुलकिततरलोत्तानला गूलनालः ।
कुत्राप्य् अक्लान्तिगामी क्वचिद् अतिपिहितः क्वापि तु गाग्रमात्रश्
चित्रव्याघ्रो’यम् आप्तुं प्रमदवनमृगीतर्णकांस् तूर्णम् एति ॥२०१७॥
मूलम् - २०१७

योगेश्वरस्य ।
विश्वास-प्रस्तुतिः - २०१८
आकुब्जीकृतपृष्ठम् उन्नतवलद्वक्त्राग्रपुच्छं भयाद्
अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् ।
लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालाननः
श्वा निःश्वासनिरोधपीवरगलो मार्जारम् आस्कन्दति ॥२०१८॥
मूलम् - २०१८

तस्यैव । (सु।र। ११६३)
विश्वास-प्रस्तुतिः - २०१९
दुर्वार-केलि-कल-+++(मानुष-)+++डिम्भ-भयाद् इदानीं
व्यालम्बि-लोल-कुच-कम्बल-भार-मन्दा ।
सन्दश्य विश्लथम् उदञ्चयता मुखेन
शावं शुनी नयति शालि-पलाल+++(=तृण)+++-कूटम् ॥२०१९॥+++(4)+++
English - शङ्करः
Afraid of the naughty, unstoppable child, the bitch - her gait slowed down by the weight of a loosely hanging row of breasts - gently grabs the puppy with her mouth and carries it to a heap of straw.
मूलम् - २०१९
दुर्वारकेलिकलडिम्भभयाद् इदानीं
व्यालम्बिलोलकुचकम्बलभारमन्दा ।
सन्दश्य विश्लथम् उदञ्चयता मुखेन
शावं शुनी नयति शालिपलालकूटम् ॥२०१९॥
शुभाङ्कस्य ।
विश्वास-प्रस्तुतिः - २०२०
विलेभ्यो निष्क्रान्तं प्रतिनवहरिद्रारसनिभं
पिर्यापृष्ठाश्लेषप्रणयि कृतसम्पन्नवजले ।
स्वरान् सानुस्वारान् विविधतदवस्थाविघटितं
कुलं मण्डूकानाम् उदयगलगण्डं विकुरुते ॥२०२०॥
मूलम् - २०२०

तस्यैव ।